SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XX% www.kobatirth.org जेणेव बाहिरिआ उवट्टाणसाला, जेणेव सिद्धत्थे खत्तिए, तेणेव उवागच्छंति । उवागच्छित्ता करयलपरिग्गहियं जाव अंजलि क सिद्धत्थं खत्तियं जपणं विजपणं वद्धाविंति ॥ ६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir काचित्सुभटपञ्चशती परस्परमसम्बद्धा सेवार्थ कस्यचिद्राज्ञोऽन्तिके गता, राज्ञा चामात्यगिरा परीक्षार्थमेका शय्या प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघुवृद्धव्यवहारहीनाः अन्योऽन्यं विवदमानाः 'सर्वैरप्येषा व्यापार्या ' इति बुद्ध्या तां मध्ये मुक्त्वा तदभिमुखपादाः शयितवन्तः । प्रातश्च प्रच्छन्ननियुक्तैर्नरैर्यथावद्व्यतिकरे निवेदिते 'कथमेते स्थितिरहिताः परस्परमसम्बद्धा युद्धादिकं विधास्यन्ती'ति निर्भर्त्य निष्कासिता इति । अतस्ते स्वमपाठका एक पुरस्कृत्य यत्रैव बाह्या उपस्थानशाला, यत्रैव सिद्धार्थः क्षत्रियस्तत्रैवो पागच्छन्ति । उपागत्य करतलाभ्यां यावदञ्जलिं कृत्वा सिद्धार्थं क्षत्रियं " दीर्घायुर्भव वृत्तवान् भव सदा श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्त्वकरुणादानैकशौण्डो भव । भोगाढ्यो भव भाग्यवान्भव महासौभाग्यशाली भव, प्रौढश्रीर्भव कीर्त्तिमान्भव सदा विश्वोपजीव्यो भव ॥ १॥" पुनः सिद्धार्थनृपं पार्श्वजिनसन्तानीयोपासकं मत्वा “x दशावतारो वः पायात्, कमनीयाञ्जनद्युतिः । किं दीपो ? नहि श्रीपः १, किन्तु वामाङ्गजो जिनः ॥ २॥” x दशावतारः कमनीयाञ्जनद्युतिश्च यः कश्चिद्वर्त्तते स 'वः' युष्मान् 'पायात्' रक्षतु । एतादृशः किं दीपः १, तस्य 'दशायां' वृत्तिकायामवतारत्वात् 'कमनीया' मनोशा मयूरव्यंसकादिना मध्यमपदलोपेऽअनोत्पादिका एव 'द्युतिः' छविरस्येत्यञ्जनद्युतित्वाच्च, नहि, तस्य For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy