SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir विति । रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छति । उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कड्ड सिद्धत्थस्स खत्तियस्स तमाणत्तियं पच्चप्पिणंति ॥ ६०॥ तए ण(से)सिद्धत्थे खत्तिए कल्लं पाउप्पभायाए रयणीए, फुल्लप्पलकमलकोमलुम्मीलियम्मि अहापंडुरे पभाए, रत्तासोग-प्पगासकिंसुअ-सुअमुह-गुंजद्धराग-बंधुजीवग-पारावयचलणनयण-परहुअसुरत्तलोअण-जासुअणकुसुमरासि-हिंगुलनिअरातिरेअरेहंत-सरिसे यत्रैव सिद्धार्थः क्षत्रियस्तत्रैवोपागच्छन्ति । उपागत्य करतलपरिगृहीतं दशनखं यथा स्यात्तथा शिरस्याXवर्तकरणपूर्वकं मस्तकेऽञ्जलिं कृत्वा सिद्धार्थस्य क्षत्रियस्य तामाज्ञप्तिकां प्रत्यर्पयन्ति । ६१-ततः (स)सिद्धार्थः क्षत्रियः 'कल्यं प्रातः 'प्रादुःप्रभातायां प्रकटप्रभातायां रजन्यां जातायां सत्यां 'फुल्लं' विकसितं यत् 'उत्पलं' पद्मं 'कमल' कृष्णसारमृगस्तयोः 'कोमलानां अकठोराणां दलानां नयनयोश्च 'उन्मीलिते' विकसिते सति 'अर्थ' रात्रिविभातानन्तरं, आपत्वाद्दीर्घत्वं, पाण्डुरे प्रभाते जाते, अर्थात् पूर्व रात्रिविभाता, तत ईषत्प्रकाशस्ततश्च पाण्डुरं प्रभातं जातं । ततोऽपि रक्ताशोका, प्रकाशकिंशुकः, शुकमुखं, गुञ्जार्द्धस्य रागो रक्तत्वं, बन्धुजीवकं-पुष्पविशेषः “बप्पोहरीआ" इति लोके, पारापतस्य चरणौ नयने च, परभृतस्य' कोकिलस्य 'सुरक्ते' कोपादिना रञ्जितत्वादतिरक्ते लोचने, जपासुमनसः “जासूद” इति जनप्रतीतस्य कुसुमस्य यो राशिः, हिङ्गुलस्य प्रतीतस्य यो निकरः, एतेभ्योऽतिरेकेण' आधिक्येन राजमानः सन् सदृशः। अरुणत्वमात्रेणैव सदृशः, दीप्त्या त्वधिकं राजमानः, यद्वा रक्ताशोकादीनां हिङ्गुलनिकरान्तानां यो राजमानो ऽतिरेक' प्रकर्षस्तत्सदृशस्तस्मिन् । पुनः For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy