SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir शतान्येवं च फाल्गुने पात, किंविशिष्टं ध्वजानीलयारेक्यात् प्रश्न तओ पुणो जच्चकणगलट्ठिपइट्ठियं समूहनीलरत्तपीयसुक्किलसुकुमालुल्लसियमोरपिच्छकयमुद्धयं धर्य, अहियसस्सिरीयं, फालिमसंखक-कुंददगरय-रययकलसपंडुरेण मत्थयत्थेण सीहेण रायमाणेण रायमाणं, भित्तुं गगणतलमंडलं चेव ववसिएणं, पिच्छइ सिवमउयमारुयलयाहयकंपमाणं, आइप्पमाण, जणपिच्छणिजरूवं ८॥४१॥ "मार्गे च दशसार्द्धानि, शतान्येवं च फाल्गुने । पौष एव परं मासि, सहस्रं किरणा रवेः॥ ३॥"७। ४१-ततः पुनः सा त्रिशलाष्टमे खमे ध्वजं पश्यति, किंविशिष्टं ध्वजं ?, जात्यकनकयष्टिप्रतिष्ठितं-उत्तमसुवर्णमयदण्डे स्थापितं, तथा समूहीभूतानि नीलरक्तपीतशुक्लानि, कृष्णनीलयोरेक्यात् पञ्चवर्णमनोहराणि, सुकुमाराणि, 'उल्लसन्ति' वातेन लहलहायमानानि यानि मयूरपिच्छानि, तैः कृता मूर्द्धजा इव-केशा इव यस्य, तं । यथा मनुष्यशिरसि वेणिर्भवति तथा तस्य ध्वजस्य शिरसि मयूरपिच्छसमूहः स्थापितोऽस्ति । पुनरधिकसश्रीक' अतिशोभनीयं । पुनः स्फटिकशङ्खौ प्रतीती, अङ्को रत्नविशेषः, कुन्द-श्वेतपुष्पं “मोगरा" इति लोके, दकरजांसि रजतकलशश्च, एतत्समान पाण्डुरेण' उज्वलवर्णेन 'मस्तकस्थेन' ध्वजाग्रे चित्रतयाऽऽलेखितेन 'राजमानेन' सौन्दर्यातिशयतः शोभमानेन, तथा चैवोत्प्रेक्षायां, गगनतलमण्डलं भेत्तुमिव 'व्यवसितेन' कृतोद्यमेन x, सिंहेन राजमानं । तथा 'शिव' सौम्यः 'मृदुको मन्दगतियों मारुतस्तस्य 'लयों मिलनं, तेन 'आहत' आन्दोलितः, तत एव कम्पमानो यः, तं। तथा 'अतिप्रमाण' महान्तं, जनप्रेक्षणीयरूपं ध्वजं प्रेक्षते ८॥ x ध्वजस्तावद्वायुतरङ्गेण कम्पते, तथा च सिंहोऽपि गगनं प्रत्युच्छलति; अत एवोत्प्रेक्ष्यते-अयं सिंहः किं गगनतलं मेत्तुं उद्यमति ? इति । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy