SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिविधसाधर्मिकवात्सल्यनिरूपणं । श्रीसङ्घभतिफलनिरूपणञ्च। तत्र जघन्यमध्यमोत्कृष्टभेदेन साधर्मिकवात्सल्यं विधा । उक्तश्च"जहन्नं देई जवमाला, मज्झिमं तु असणपाणाई । संघप्पभावणवच्छल्ल-वत्थाभरणेहि उक्कोसं ॥१॥” इति। "सर्वात्मना भवेच्छुद्धं, यस्य श्रीसङ्घगौरवम् । तस्य सम्यक्त्वनैर्मल्यं, भवेदहत्पदप्रदम् ॥१॥” इति । श्रूयते च महादुर्भिक्षकालकृतसकलसाधर्मिकवात्सल्येन श्रीसम्भवनाथजिनेन श्रीपर्युषणपर्वणि विशेषतस्सकलसाधर्मिकापूर्वभक्त्या तीर्थङ्करनामकर्म बद्धमिति । यदुक्तं श्रीसम्भवजिनप्राकृतचरित्रे "पजुसणे पुवभवे, जिणवयणनिविडभत्तिराएण । पत्तं तित्थयरत्तं, सिरिसंभवतित्थनाहेणं ॥१॥” इति । न च द्रव्यसाधर्मिकवात्सल्यकरणमात्रेण सन्तोषितव्यं, किन्तु धर्मकार्ये वहुप्रमादवतां श्रावकाणां धर्मानुष्ठानक्रियोपयुक्तेन श्रावकेणाऽपि तद्धितकालया स्मारणावारणाचोदनाप्रतिचोदनाकरणेन भावसाधर्मिकवात्सल्यमपि प्रतिदिनं कर्त्तव्यमित्याशयेनाऽऽह अर्हक्रियानिरतचित्त उपासकोऽपि, सुस्मारणादिकरणेन प्रमत्तकेषु । साधर्मिकेषु तदपूर्वहिताय भाव-वात्सल्यमहदुदितं हृदयेन कुर्यात् ॥ १०॥ १ जघन्यं ददाति जपमालां मध्यमं त्वशनपानादि । सङ्घप्रभावनवात्सल्यवस्त्राभरणैरुत्कृष्टम् ॥१॥ २ पर्युषणे पूर्वभवे जिनवचननिविडभक्तिरागेण । प्राप्तं तीर्थकरत्वं श्रीसम्भवतीर्थनाथेन ॥१॥ CAMERICROGRESSU RESEAS |भावसाधमिकवात्सल्यमप्यत्र कर्तव्यमित्यधिकारः। For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy