SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MES ब्रह्मचर्य प्रतिज्ञी चा सुगृहीतवान श्रीकेवलज्ञानभाग्यवतां धुरी विषये विजयान्वितविजय श्रेष्ठि चरित्रप्ररूपणम्। संमूढचित्ताज्ञनृवत्कदापि, न पुत्रसन्तानविनाशबुद्ध्या । हृदाऽनुतापं विदधे स मेने, खवंशरत्नं स्वजनुश्च धन्यम् ॥ २७॥ पूर्णप्रतिज्ञौ चतुरौ पितृभ्यां, पुण्यप्रपाभ्यामनुमोद्यमानौ । द्राग दम्पती तौ सुगृहीतवन्तौ, दीक्षां भवान्ध्युत्तरणैकनावम् ॥ २८ ॥ विशुद्धचारित्रबलेन लब्ध्वा, श्रीकेवलज्ञानमनेकसत्त्वान् । प्रबोध्य तौ मोक्षपुरी विशुद्धां, प्रजग्मतुर्भाग्यवतां धुरीणौ ॥२९॥ पद्यमयमेव गद्यरूपेण विजयविजयादम्पतीकथानकं चैवम्-बालबोधायोच्यते । कौशाम्ब्यामहद्दासाहहास्योः पुत्रो विजयनामक आसीत्, स च बाल्यावस्थायां"विषयगणः कापुरुष, करोति वशवर्तिनं न सत्पुरुषम् । बनाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥ १॥ अमराः किङ्करायन्ते, सिद्धयः सह सङ्गताः। समीपस्थायिनी सम्पत्, शीलालङ्कारशालिनाम् ॥२॥" __ इत्याधुपदेशतः प्रबलवीर्योल्लासोत्साहतः शुक्लपक्षीयब्रह्मव्रतनियमं गृहीतवान्, तत्रैव च नगर्या धनावहधनश्रियोर्विजयानाम्नी पुत्री आसीत्, सा च "आदी माधुर्यरूपाः परिणतिकटुका ये च किम्पाकतुल्याः, कण्डूकण्डूयनाभाः क्षणिकसुखकरा दुःखसंयोजिनोऽन्ते । S SECCARDAMOMSEX ACSCSAX For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy