SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलपतिः। तदहर्जस्तनेहातो रक्षोदृष्टे भवस्मृतेः । भूतानन्वयनात् सिद्धः प्रकृतिज्ञः सनातनः ॥ इति । न च खदेहप्रमितिरात्मेत्यत्रापि प्रमाणाभावातू सर्वत्र संशयः इति वक्तव्यम् । तत्रानुमानस्य सद्भावात् । तथाहि । देवदत्तात्मा तदेह एव तत्र सर्वत्रैव च विद्यते तत्रैव तत्र सर्वत्रेव च स्वासाधारणगुणाधारतयोपलम्भात् । यो यत्रैव यत्र सर्वत्रेव च स्वासाधारणगुणाधारतयोपलभ्यते स तत्रैव तत्र सर्वत्रेव च विद्यते । यथा देवदत्तपहराव तत्र सर्वत्रैव च उपलभ्यमानः स्वासाधारणभास्वरत्वादिगुणः प्रदीपः। तथाचायं स्यात्तघेति । तदसाधारणगुणज्ञानदर्शनमुखवीर्यलक्षणास्ते च सर्वाङ्गोणास्तत्रैव चोपलभ्यन्ते । मुखमालादनाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याद् यूनः कान्तासमागमः ।। इति वचनातू। तस्मादात्मा म्वदेहप्रमितिरेव स्थितः ॥८॥ द्वितीयं विशेषभेदमाह ॥॥ वेसादृश्यं हि प्रतियोगिग्रहणे सत्येव भवति । न चापेक्षिकत्वादस्यावस्तुत्वम् श्रवस्तुन्यापेक्षिकलायोगात् । अपेक्षाया वस्तुनिष्ठत्वात् ॥ ९ ॥ स्यात्कारलाज्छितमबोध्यमनन्तधर्मसन्दोहवर्मितमशेषमपि प्रमेयम् । देवैः प्रमाणबलतो निरचायि तच्च संक्षिप्तमेव मुनिभि विवृतं मयैतत् ॥ इति परीक्षामुखस्य लघुवृत्तो विषयममुद्देशश्चतुर्थः ॥ ॥ अदानी फलविप्रतिपत्तिनिरासार्थमाह ॥ १ ॥ विविधं हि फलं साक्षात् पारम्पर्यणेति । सातादज्ञाननिवृत्तिः पारम्पर्यण हानादिमिति । प्रमेयनिश्चयोत्तरकालभावित्वात्तस्येति ॥१॥ __तद्विविधमपि फलं प्रमाणामिन्नमेवेति योगाः। अभिन्नमेवेति मोगताः । तन्मतहयनिरासेन स्वमतं व्यवस्थापयितुमाह ॥२॥ कथञ्चिदभेदसमर्थनार्थं हेतुमाह ॥ ३॥ अयमर्यो यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्ये कममात्र पेक्षया प्रमाणफलयोरभेदः। करणक्रियापरिणामभेदाभेदः । इत्यस्य सामर्थसिद्धवानोक्तम् । पारम्पर्यण साक्षाच्च फलं वैधाभिधायि यत् । देवेभिन्नमभिन्नञ्च प्रमाणातदिहोदितम् ॥ ३ ॥ इति परीक्षामुखलघुवृत्तो फलसमुद्देशः पञ्चमः ।। ० ॥ For Private and Personal Use Only
SR No.020543
Book TitleParikshamukh Sutram
Original Sutra AuthorN/A
AuthorManikya Nandi, Anantvirya, Satishchandra Vidyabhushan
PublisherCalcutta
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy