SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९६ परापारमाधव:। सममिति वचनात् । ऋक्थं सुणमिति वचनादिनिवृत्यर्थं शोध्यमित्याह* भएत्र, “ऋणमेवंविधं गोध्यं विभागे वन्धुभिः सदा । ग्रहोपस्कर वाह्याश्च दोह्याभरणकर्मिणः ॥ दृश्यमाना विभज्यन्ते कोशं गढ़ेऽब्रवीत् भृगुः” इति । अत्र कोशग्रहणमितरदिव्यप्रतिषेधार्थम् । तथाच सएव, "शंका विश्वासमन्धाने विभागे ऋक्थिनां सदा । क्रियासमूहकरीत्वे कोशमेवं प्रदापयेत्”-दति । अविभाज्यद्रव्यमाह याज्ञलल्क्यः, "पिटद्रव्याविरोधेन यदन्यत् स्वयमर्जितम् । मैत्रमौदाहिकञ्चैव दायादानां न तद्भवेत् ॥ क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः । दायादेभ्यो न तदद्यात् विद्यया लब्धमेवच" इति। पिटद्रव्याविरोधेन यत् स्वयं कृष्यादिना उपार्जितं, यच्च विद्यादिना लब्धं, विवाहाच्च यलचं, तद्भात्रादीनां न भवेत् । यत्पित्रादिक्रमायातं चोरादिभिरपहतमन्यैरनुतं द्रव्यं पुत्राणां मध्ये यः कश्चिदितराभ्यनुजयोद्धरति, नत्तस्यैव भवति । क्षेत्रं तु तुरीयांशमेवोद्धा ग्टहाति शेषं तु मर्वेषां मममेव । तथा गङ्खः, “पूर्वनष्टान्नु यो भूमिं यः कश्चिदुद्धरेत् श्रमात् । यथाभागं लभन्तेऽन्ये दत्वाउंजन्तु तरीयकम्" इति । * इत्यमेव पाठः सर्वत्र । परमयमसमीचीनः पाठः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy