SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org परराश्रमाधवः । Acharya Shri Kailassagarsuri Gyanmandir भूतक्रयादिसन्देहात् स्वत्वसन्देहोपपत्तेः । चदपि चो, “योऽदत्तादायिन: " - दूति श्रदत्तादायिनः मकाशात् याजनादिना द्रव्यमर्जयितुर्दण्ड विधानमनुपपन्नमिति । तदप्यसत् । प्रतिग्रहादिनिय - तोपायकस्यैव स्वत्वस्य लौकिकत्वात् नियमातिक्रमेण द्रव्यमर्जयतोदण्डविधानमुपपद्यते । एवं, “तस्योत्सर्गेण शुध्यन्ति " - इति प्रायवित्तविधानमपि । एवं च स्वत्वस्य लौकिकत्वे श्रमत्प्रतिग्रहादिलभ्यं धनं तत्पुत्रादौनां दायत्वेन स्वमिति विभाज्यम् । न तेषां दोषसम्बन्धश्च (२) । " मत वित्तागमा धर्म्या दायोलाभः क्रयोजय: । प्रयोगः कर्मयोग सत्प्रतिग्रहएवच " - इति मनुस्मरणात् । इदमच चिन्तनौयम् । विभागात् स्वं स्वस्य वा विभागः - इति । श्रचायं पूर्वपक्ष: । विभागात् स्वं जन्मनैव स्वत्वे उत्पन्नमात्रस्य पुत्रस्यापि स्वं साधारणमिति द्रव्यसाध्येष्वाधानादिषु पितुरधिकारविधिर्न स्यात् (२) । किञ्च, (१) स्वत्वस्य ।स्यैकसमधिगम्यत्वे सत्प्रतिग्रहादिना लब्धेषु वत्वमेव न स्यात् तस्योत्सर्गत्रिधानात् । स्वत्वस्य लौकिकत्वे त्वसत्प्रतिग्रहादि - लब्धेय्वपि स्वत्वं भवत्येव । तस्योत्सर्गेण शुध्यन्तौति प्रायश्चित्तन्तु यितुरेव न तत्पुत्रादीनाम् । स खल्वर्जयिता यथोक्तं प्रायचित्तमकुव्वन् प्रत्यवायभागो भवति, तस्य तद्धनमधर्म्यञ्च भवति । तत्पुत्रादीनान्तु दायरूपमेव तद्धनमिति न तेषां प्रत्यवायः । तेषां तस्य धर्म्यत्वादित्याशयः । (२) साधारणधनम्यैकेन विनियोगासम्भवादिति भावः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy