SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२२ परागरमाधवः। "अन्याऽभिगमने त्वयः कुबन्धेन प्रवासयेत् । शूद्रस्तथाऽझ्यएव स्यादग्न्यस्थासंगमे बधः ॥ अयोनौ गच्छतो योषां पुरुषं वाऽपि मेहतः । चतुर्विंशतिको दण्डः तथा प्रव्रजितासु च” इति । अन्यां चण्डालौम्। तां गच्छन्तं चैवर्णिकं प्रायश्चित्तानभिमुखं, "महस्रं त्वन्यजस्त्रियम्” इति मनुवचनानुसारेण सहस्रं दण्डयित्वा कुत्सितबन्धेन भगाकारेणाङ्कयित्वा पुराविर्वासयेत् । शूद्रः पुनः चण्डालौं गच्छन्वयएव। अन्य इति पाठे चण्डालएव भवति । चण्डालस्य उत्कृष्टजातिस्त्रियाभिगमने बधएव । योषां मुखादावभिगच्छतः पुरुष वा मुखे मेहतः प्रप्रजितां गच्छतः चतुर्विंशतिपणोदण्डः । वञ्चनया स्त्रीसङ्घहे दण्डमाह सहस्पतिः। "विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते । स्त्रीपुंसयोगसंज्ञन्तद्विवादपदमुयते"--इति । स्वीरक्षणमाह मनुः, "श्रखतन्त्राः स्त्रियः कार्याः पुरुषैः खैर्दिवानिशम् । विषये मजमानाश्च संस्थाप्या ह्यात्मनो वशे ॥ * पुरुषं वाऽभिमेहतः, इति पाठः समीचीनः प्रतिभाति । + अत्र कियान् ग्रन्यांशः अादर्शपुस्तकेषु परिभछ इत्यनुमीयते । यतः समन्तरोतवचनं स्त्रीपुंसयोगाख्यव्यवहारपदस्य लक्षणपरमेव, न तु वञ्चनया संग्रहणे दण्ड विधायकम् । भवितव्यन्त्वत्र, वश्चनया स्त्रीसंग्रहे दण्डविधायकेन प्रमाणेन । तत्तु न दृश्यते । यतः कारणात् कियान् ग्रन्यांशः प्रलौन इत्यवगम्यते । समनन्तरोतं विवाहादिविधिः स्त्रीणामित्यादिवचनं नारदस्येति कृत्वा मिताक्षरादावुद्धतमस्ति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy