SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । "ग्रहं तटाकमारामं क्षेत्र वा भौषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतं दमः" इति । घे तु बलादपहियमाणक्षेत्रादिभ्रमयस्तेषां उत्तमोदण्डः प्रयोकव्यः । "बलात्सर्वस्वहरणं पुरानिर्वासनाङ्कने । तदङ्गच्छेददत्येको दण्ड उत्तममाहम:'-दति स्मरणात् । यत्तु शङ्खलिखिताभ्यां सौमाऽतिक्रमणे दण्डाधिक्यमुक्तम् । “मौमाव्यतिक्रमे त्वष्टमहस्रम्" इति । तत्समग्रसीमाऽतिक्रमविषयम् । सौमासन्धिषत्पन्नक्षादिविषये कात्यायनः, “सौमामध्ये तु जातानां वृक्षाणां क्षेत्रयोईयोः । फलं पुष्पञ्च सामान्य क्षेत्रस्वामिषु निर्दिशेत्" इति । अन्यक्षेत्रे जातक्षादिविषये सएव, “अन्यक्षेत्रे तु जातानां शाखा यत्रान्यमंस्थिता । खामिनन्तु विजानीयात् यस्य क्षेत्रे तु संस्थिता"-दति । परक्षेत्रे प्रार्थनया क्रियमाणसेतु कूपादिकं क्षेत्रस्वामिना न निषेद्धव्यम् । तदाह याज्ञवल्क्यः, "न निषेध्योऽल्पबाधस्तु सेतु: कल्याणकारकः । परभूमौ हरन् कूपः स्वल्पक्षेत्रो बहूदकः" इति । यत्वल्पबाधकं महोपकारक क्षेत्रादिकञ्च भवति. तत् क्षेत्र स्वामिना न निषेद्धव्यम् । यत्पुनर्बहुबाधकं स्वल्पोपकारकं च, तनिषेद्धव्यं भवति । नारदोऽपि, “परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिबध्यते । महागणोऽन्य दोषशेत वृद्धिरिष्टा क्षये मनि"- इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy