SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २६७ अतएवाल्पकालप्रचारे दोषाभावमाह विष्णुः । “पथि ग्रामप्रान्ते च न दोषोऽल्पकालम्”-इति । दण्डपरिमाणन्तु पशुविशेषेण दर्शितं याज्ञवल्क्येन, "माधानष्टौ तु महिषी शस्यघातस्य कारिणौ। दण्डनीया तदर्द्धन्तु गौस्तदर्द्धमजाविकम् ॥ भवयित्वोपविष्टानां यथोक्रद्विगुणोदमः । सममेषां विवौतेऽपि खरोष्ट्रं महिषौसमम्” इति । परशस्यघातकारिमहिषौखामी प्रतिमहिय्यष्टौ माषान् दण्डनौयः । चतुरोमाषान् गोखामी। मेषखामी द्यौ द्वौ माषौ। एषामेव पशूनां शस्यभक्षणादारभ्य यावच्छयनमनिवारितानां स्वामी यथोकदण्डात् द्विगुणं दण्डनीयः । तथा, "तथाऽजाविकवामानां पादोदण्डः प्रकीर्तितः" इति स्मृत्यन्तरोनं वेदितव्यम् । माषश्चात्र तामिकपणस्य विंशतितमो भागः, “माषो विंशतिमो भाग: पणस्य परिकीर्तितः"-इति नारदस्मरणात् । भवयित्वोपविष्टमवत्सविषये यथोक्काचतुर्गुणोदण्डः । तदुकं स्मृत्यन्तरे, “वत्मानां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः” इति । यत्पुनर्नारदेनोक्रम्, "माषं गां दापयेद्दण्डं द्वौ माषौ महिषं तथा । तथाऽजाविकवत्मानां दण्डः स्यादर्द्धमाषिकः” इति । तम्भहर्त्तमात्रभक्षणविषयम् । अतएवाहतुः शङ्खलिखितौ । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy