SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । २६५ अत्रयोदशपणाः सार्द्धद्वादशकार्षापणाः। पालदोषमाह मनुः, "अजाविके तु संरुद्धे कैः पाले बनायति। यां प्रमह्य वृकोहन्यात्पाले तत्किल्विषं भवेत्”-दति । अनायति, उपद्रवनिराकरणाय अनागच्छतीत्यर्थः । यां, अजाविकजातीयाम् । एतत्मुगमस्थलस्थविषयम् । दुर्गमस्थल विषये न दोष इत्याह सएव, “तामां चेदवरुद्धानां चरन्तीनां मिथोवने। यामुपेत्य वृकोहन्यान्न पालस्तत्र किल्विषो"-इति । अवरुद्धानां, पालकेन स्थापितानामित्यर्थः । दैवमतानां पुनः कर्णादिकं दर्शनीयम् । तथाच मनुः, “कौँ चर्म च बालांश्च वस्त्यस्थिस्नायुरोचनम् । पशुस्वामिषु दद्यात्तु मृतेष्वङ्गाभिदर्शनम्" इति । स्मृत्यन्तरमपि, "कौँ चर्म च बालांश्च श्टङ्गस्नाय्यस्थिरोचनम् । पशुस्वामिषु दद्यात्तु मृतेष्वङ्गानि दर्शयेत्”–दूति । गोप्रचारभूमिमाह याज्ञवल्क्यः, "ग्रामेच्छया गोप्रचारी भूमौराजेच्छयाऽपिच” इति । ग्रामेच्छया ग्रामाल्पत्वमहत्त्वापेक्षया यदृच्छया वा गवां तृणादिभक्षणार्थं कियानपि भूभागः कृतः परिकल्पनीयः । गवां प्रचारस्थानासनसौकऱ्यार्थं ग्रामक्षेत्रयोरन्तरमाह सएव, "धनुःशतं परीणाहो ग्रामक्षेत्रान्तरम्भवेत् । दे शते खवटे शस्यं नगरस्य चतुःशतम्" इति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy