SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २४७ अथ सम्बिव्यतिक्रमाख्यविवादपदस्य विधिरुच्यते। तम्य लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम्, “पाषण्डनैगमादीनां स्थितिः समय उच्यते । ममयस्यानपाकर्म तद्विवादपदं स्मृतम्” इति । समयस्यानपाकर्म अव्यतिक्रमः समयपरिपालनम् । तद्व्यतिक्रममाणं विवादपदं भवतीत्यर्थः । तदुपयोगिनमर्थमाह सहस्पतिः, “वेदविद्याविदोविप्रान् श्रोत्रियांश्चाग्निहोत्रिणः । आहत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत्” इति । याज्ञवल्क्योऽपि, "राजा कृत्वा पुरे स्थानं ब्राह्मणन् न्यस्य तत्र तु । विद्यान् दृत्तिमद्रूयात्स्वधर्मः पाल्यतामिति”-इति । ब्राह्मणन् त्रैविद्यान् वेदत्रयसम्पन्नान् वृत्तिमद्भूरिहिरण्यादिउम्पन्नं कृत्वा स्वधर्मावर्णाश्रमश्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामेति तान् ब्रूयात् । वृत्तिसम्पत्तिश्च वृहस्पतिना दर्शिता, "अनाच्छेद्यकराम्तेभ्यः प्रदद्यात् ग्टहभूमयः । मुक्तभाव्याश्च(१) नपतिलेखयित्वा स्वशासने” इति । तेभ्यो दद्यादित्यर्थः । तेषां कर्त्तव्यमाह वृहस्पतिः, "नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा । (0) अनाच्छेद्य कराः, न बाच्छेद्यः घाहर्त्तव्यः कसेराजग्राह्यभागोयासां तथाविधाः। ग्रहभूमय इति द्वितीयार्थ प्रथमा। एहभूमीरित्यर्थः। मुक्तभाव्यास्त्यक्तराजदेयाः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy