SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "श्रदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । थावती सम्भवेहृद्धिः तावतो हातुमर्हति" इति । हिरण्यमदयित्वा निर्जितां वृद्धिमदत्वा तत्रैव लेख्ये परि वर्तयेत् । यस्तु ऋणप्रतिदानकाले सवृद्धिकं मूलं दातुं न शक्नोति, तं प्रत्याह याज्ञवल्क्यः,__"लेख्यस्य पृष्ठेऽभिलिखेत् दत्वा दत्वर्णिको धमम्" इति। लेख्यामन्निधाने विष्णुः । “असमग्रदाने लेख्यामन्त्रिघाने चोत्तमर्णस्य लिखितं दद्यात्" इति । नारदोऽपि, "महोतोपगतं दद्यादृणिकात् वृद्धिमाप्नुयात् । यदि वा भो परिलिखेदृणिमा चोदितोऽपि मन् । धनिकस्यैव वर्द्धत तथैव ऋणिकस्य च” इति । यस्तु ऋणापाकरणं न करोति, तस्य प्रत्यवायः पुराणेऽपि दर्शितः, "तपखौ चाग्निहोत्री च ऋणवान् म्रियते* यदि। तपश्चैवाग्निहोत्रञ्च सर्वं तद्धनिने भवेत्” इति । कात्यायनोऽपि, "उद्धारादिकमादाय स्वामिने न ददाति यः । स तस्य दासोमृत्यः स्त्री पशुर्वा जायते ग्टहे"-इति । उद्धारादिकं दातुर्य्यद्देयतया स्थितम् । नारदोऽपि, "याच्यमानं न दद्यात्तु ऋणमाधिप्रतिग्रहम् । सट्रव्यं वर्द्धयेत्तावत् यावत्कोटिशतं भवेत् ॥ • गं नोधियते,-इति भा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy