SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www. kobatirth.org पराशर माधवः । प्रतिभूरेव दाप्यो न तत्पुत्रः विवादप्रतिभूसाधितं धनं दण्डञ्च दाप्यः । तदभावे तत्पुत्रोऽपीत्याह व्यासः, - Acharya Shri Kailassagarsuri Gyanmandir “विप्रत्यये लेख्यदिव्ये दर्शने वाऽकृते सति । ऋणं दाप्याः प्रतिभुवः पुत्रन्तेषां न दापयेत् ॥ दानवादप्रतिभुवौ दाप्यौ तत्पुत्रको तथा " - इति । यत्र दर्शनप्रत्ययप्रतिभुवौ बन्धकं गृहीत्वा प्रातिभाव्यमङ्गीकुरुतः, तत्र विशेषमाह कात्यायनः, - 2 “गृहौवा बन्धकं यच दर्शनस्य स्थितो भवेत् । विना पित्रा धनं तस्माद्दाप्यस्तस्य ऋणं सुतः” -- इति । अनेक प्रतिभूदानप्रकारमाह याज्ञवल्क्यः, - “बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् । एकछायाश्रितेय्वेषु धनिकस्य यथा रुचि: " - इति । "एकस्मिन् प्रयोगे द्वौ वहवो वा प्रतिभुवः, तद विभज्य स्वांशेन दद्युः । एककायाश्रितेषु यं पुरुषं धनिकः प्रार्थयेत् सएव नं दद्यात् नांशतः । एकछायाधिष्ठितेषु यदि कश्विद्देशान्तरङ्गतः, तदा तत्पुत्रोऽपि दद्यात् । मृते तु पितरि पुत्रः पिवंशमेव दद्यात्, न रत्नम् । तथाच कात्यायनः, - "एकछायाप्रविष्टानां दाप्योयस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं पित्रंशन्तु मृते तु सः”–इति। प्रातिभाव्यापलापे दण्डमाह पितामहः, - “यो यस्य प्रतिभूर्भूत्वा मिथ्या चैव तु प्रछति । च्यत्र, यदि इति भवितुमुचितम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy