SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७० www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir सन्दिग्धे प्रातिभाव्ये च यदि न स्यात्स्वयं कृता " - दूति । यथास्थिते निचेपे व्यक्त्यन्यथाकरणरहिते । दातुं योग्यमयोग्यञ्चेति सन्दिग्धे। प्रातिभाव्ये ऋणिप्रत्यर्पणादौ । कात्यायनोऽपि - “कसस्याद्यते पण्यमूल्ये च सर्वदा । स्त्रीशक्रेषु न वृद्धिः स्यात् प्रातिभाव्यगतेषु च " - इति । सर्वदेति प्रतियाचनादेः परस्तादप्यकृता वृद्धिर्नास्तीत्यर्थः । पण्यमूल्ये कात्यायनवचनविरोधः पूर्वमेव परिहृतः । व्यासोऽपि,— “प्रातिभाव्यं भुक्तवन्धमग्टहोतञ्च दित्सतः । न वर्द्धते प्रपन्नः स्यादथ शुक्लं प्रतिश्रुतम्” – इति । भुवन्धग्रहणं निक्षेपोपायने यथा वृद्धिर्दया, तथा गोप्यभोगे वृद्धिर्न देयेत्येवमर्थम् । “भुकाधिर्न वर्द्धते " - इति गौतमस्मरणात् । श्रग्टहीतं च दित्सतः, -इति कृतवृद्ध्यपवाद:, अकृतवृद्ध्यपवादप्रसङ्गादुक्तः । कृतवृद्ध्यपवादञ्च याज्ञवल्क्येन दर्शितः, - " दीयमानं न गृह्णाति नियुक्तं यत्स्वकं धनम् । मध्यस्थस्थापितं तत्स्यादर्द्धते न ततः परम्” – इति । प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य परम् । वृद्धिद्रव्यभेदानाह याज्ञवल्क्यः, “सन्ततिस्तु पशस्त्रीणां रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्दिगुणा परा" - इति । पशुस्त्रीणां सन्ततिरेव वृद्धिः । रमस्य तैलवृतादेः स्वकृतया वृद्ध्या वर्द्धमानस्याष्टगुणा वृद्धिः परा । नातः परं वर्द्धते। वस्त्रधान्यहिरण्यानां यथाक्रमं चतुर्गुणा त्रिगुणा दिगुणा च परा वृद्धिः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy