SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। क्रौञ्चसारसहंसांश्च चक्रवाकं च कुकटम् । जालपादच शरभमहोरात्रेण शुध्यति ॥२॥ कौच्चादयः पतिविशेषा: प्रसिद्धाः। जालपादशरभौ यद्यप्यप्रसिद्धौ, तथापि पक्षिभिः समभिव्याहारात्तावपि पक्षिविशेषौ द्रष्टव्यौ। अत्र हत्वेत्ययाहारः । अहोरात्रेणैकोपवासेनेत्यर्थः । तथाच सम्बर्त्तः, "चक्रवाकं तथा क्रौञ्चं तित्तिरि शुकसारिके। श्येनं ग्टधमुलूकञ्च तथा पारावतानपि ॥ टिट्टिभं जालपादश्च मछु कुक्कुटमेवच । एवं पक्षिषु सर्वेषु दिनमेकमभोजनम्” इति । ननु हंसादिबधे गोदानं मनुराह, "हत्वा हम बलाकाञ्च वकं* वहिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्वाह्मणाय गाम्" इति । याज्ञवल्क्योऽपि, "हंसश्येनकपिक्रव्यान्जलस्थलशिखण्डिनः । भामञ्च हत्वा दद्यागामक्रव्यादांस्तु वत्मिकाम्” इति ॥ नायं दोषः । गोदानस्योपवासाशक्रधनिकविषयत्वात् । बलाकादिषु पूर्वानात् अन्यों प्रायश्चित्तमाह, * चक्र,-इति मु। + न्यूनं,-इति मुः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy