SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० पराशरमाधवः । धर्मावाहनपूर्वन्तु प्रतिज्ञापत्रकं लिखेत् । यदि पापविमुक्तोऽहं धर्मस्वायातु मे करे ॥ अभियुक्तस्ततश्चैकं प्रग्टलौताविलम्बितम् । धर्म ग्रहोते शुद्धः स्थादधर्म तु स होयते ॥ एवं समासतः प्रोक्तं धम्माधर्मपरीक्षणम्” इति । मौसकायसमिति मौसकमिश्रायसम् । इति धर्माधर्मदिव्यविधिः । इति क्रियापादः। अथ क्रमप्राप्तो निर्णयपादः कथ्यते । अत्र वृहस्पतिः, “धर्मण व्यवहारेण चरित्रेण नृपाज्ञया । चतुःप्रकारोऽभिहितः मन्दिग्धार्थविनिर्णयः ॥ एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः । अपराधानुरूपन्तु दण्डन्तु परिकल्पयेत् ॥ प्रतिवादी प्रपद्येत यत्र धर्मस्य निर्णयः । दिव्यैर्विशोधितम्सम्यग्विनयस्ममुदाहृतः ॥ प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते । वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ।। अनुमानेन निर्णोतं चरित्रमिति कथ्यते । देशस्थित्या हतौयस्तु तत्वविद्भिरुदाहृतः ॥ - प्रारमोनालिम्बिन', --ति का० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy