SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२९ परापारमाधवः। महितो लोकपालैश्च वस्खादित्यमरुद्गणैः ॥ आवाह्य तु घटे धर्म पश्चादङ्गानि विन्यसेत्” । घटग्रहणं सर्वदिव्योपलक्षणार्थम् । एषां धर्माणां सर्वदिव्यसाधारणलात् । अङ्गविन्यामप्रकारस्तेनैव दर्शितः, “इन्द्रं पूर्व तु संस्थाप्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरञ्चोत्तरे तथा ॥ अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत् । इन्द्रः पीतो यमः श्यामो वरुण: स्फटिकप्रभः ॥ कुबेरस्तु सुवर्णाभस्वग्निश्चार्यसुवर्णभाः । तत्रैव निम्र तिः श्यामो वायुस्तानः प्रशस्यते ॥ ईशानस्तु भवेद्रक्तः एवं ध्यायेत् क्रमादिभान् । इन्द्रस्य दक्षिणे पार्श्व वसूनावाइयेडुधः ॥ धर्मा* ध्रुवस्तथा व्योम प्रापश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ देवेशेशानयोर्मध्ये श्रादित्यानां यथाक्रमम् । धाताऽर्यमा च मित्रश्च वरुणेशौ भगस्तथा ॥ दन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजयो यो जघन्यजः ॥ इत्येते द्वादशादित्या नामभिः परिकीर्तिताः । अग्नेः पश्चिमभागे तु रुद्राणामयनं विदः ॥ वीरभद्रश्च शम्भुश्च गिरौशश्च महायशाः । * धरो,--इति का For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy