SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १.५ तन्मूलमागमाभावाद्*योग्यानुपलब्ध्या बायमानत्वात् । स्मरणयोग्ये पुनः पञ्चाशदधिकशतवर्षातौतकालात् प्राचीनकाले प्रारधा स्वकालदाावसितागममूलिका विनाऽपि मानान्तरागतमागमभूलतां खत्वे प्रमाणमिति । अस्मार्तेऽपि काले अनागमस्मतिपरम्परायां सत्यां न भोगः प्रमाणम् । अतएव नारदः, "अनागमन्तु यो भुते बहन्यब्दशतान्यपि । चोरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः”–दति । निधितानागमः स्वभोगस्तेनैव दर्शितः, "अन्याहितं इतन्यस्तं बलावष्टधयाचितम् । अप्रत्यक्षं च यमुकं षडेतेऽयागमं विना"-इति। अन्याहितं अन्यस्मै दातमर्पितम् । इतमाहतम् । न्यस्तं निक्षिप्तम्। बलावष्टधं राजप्रसादादिबखावष्टम्भेन भुक्रम्। थाचितं परकीयमलदाराद्यर्थमानीतम् । सम्बताऽपि, “या राजक्रोधलोभेन छलान्यायेन वा कता। प्रदत्ताऽन्यस्य तुष्टेन न मा मिद्धिमवाप्नुयात्” इति । यत्तु हारौतेनोक्रम्, “अन्यायेनापि यद् भुकं पित्रा पूर्वतरैस्त्रिभिः । म तत् शक्यं पराहत क्रमात् त्रिपुरुषागतम्" इति । एतच अन्यायेनापि भुकमाहर्तमशक्यम्, किं पुनायेन भुक्तमित्येतत्परम् । शासनविरोधे भुक्तरप्रामाण्यमाह वृहस्पतिः, “यस्य त्रिपुरुषो भुतिः पारम्पर्यक्रमागता । * तन्मूलमनागमाभावाद,-इति शा। 14 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy