SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। SC मनुष्यविषमांसास्थिमधुचौराम्बुमर्पिषाम् । विक्रेता ब्रह्मणश्चैव विजो वार्धषिकश्च यः ॥ च्युतः स्वधर्मात्कुलिकः सूचको हौनसेवकः । पित्रा विवदमानश्च भेदकृञ्चत्यमाक्षिण:"-दूति ॥ नैकृतिकः पररन्धान्चेषणशीलः। चाक्रिको वैतालिकः । समुद्रवणिक् स्वाहितयायो । युग्मो दिवविशिष्टः । एकस्थालौत्यत्र देधाविग्रहः ; एका पाकसाधनस्थालौ यस्य सः, यदा पाकस्थालौ भोजनस्थालौ वा एक भोजनपात्रं स्थानी यस्य । परिषु चरतीत्यरिचरः, शत्रमम्बन्धीति यावत् । सनाभयस्तु कात्यायनेन दर्शिताः, "मानवसृसुताश्चैव मोदर्यसुतमातुलाः ।। एते मनाभयस्वकाः साक्ष्यन्तेषु न योजयेत्”-दूति ॥ शैलषो नटः। विषस्य सङ्ग्रहणरक्षणदिव्यापारे नियुक्तः विषजीवौ। अहितण्डिकः सर्पग्राही। गरदो विषदः । अग्निदो ग्रहदाहादिकर्ता । श्रान्तः श्येनः । निर्धूतो वहिष्कृतः । अन्यावसायौ प्रतिलोमजः । भिन्नवृत्तो दुराचारः । समावृत्तोऽनैष्ठिकब्रह्मचारी। जड़ो मन्दबुद्धिः । तैलिकः तिलघाती। वर्षसूचकः वृष्टिसूचकः । नक्षत्रसूचको ज्यौतिषः । अघमंसी परदोषप्रकाशकः । शौण्डिको मद्यविक्रयो। देवताव्याजेन द्रव्योपजौविक प्रात्मविष्कम्भः । कुहकोदाम्भिकः । प्रत्यवसितः प्रव्रज्यातो निवृत्तः। सूचकः परदोषसूचनार्थं राज्ञाऽभियुक्तः। भेदकृत्पिशनः । अन्ये प्रसिद्धवाः। कात्यायनोऽपि,* खारात्रिकपाती, इति का। । भोजनस्थानं, इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy