________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पराशर माधव
.
दौर्बल्येन वा किञ्चित्साहमं कृतमित्यादि । तत्र प्रकृतस्य अनुक्तत्वात् उत्तरमन्यार्थं भवति । शतं देयमिति प्रतिज्ञातस्य श्रर्थस्य शतदयमित्युत्तरं दोषवत् । सार्द्धं सहस्रं मह्यं देयमिति प्रतिज्ञातस्य तदई प्रमितमिति वक्तव्ये सति विस्पष्टं न वदति, किन्तु लोके यः कोऽपि किमग्टहोतनामरसं दास्यतीत्येवमप्रसिद्धशब्देन व्यतिरेकमुखेन काकस्वरेणाभिहितमुत्तरं निगूढम् । किन्तेनैव सदा देयं मया देयमित्यत्रो भयोर्वाक्ययोरादेयमिति वा पदच्छेदसम्भवादर्थस्य अनिश्रयात् किमिति काका व्यज्यमानस्याप्यनिश्चयादिदमुत्तरं व्याकुलम् । तत्पित्रा सुवर्णशतं ग्टतीतमित्यभियोगे नाहं पितुर्वाक्यं जानामीति वक्रव्ये सति व्यत्यस्तान्वयेन दुर्बोधं वचो ब्रूते, गृहीतं शतं वचनात् सुवर्णानां पितुर्न जानामीति । तदिदमुत्तरं व्याख्यागम्यम् । काकदन्तादिविषयं निष्प्रयोजनं श्रसारमिति । संकरा - ख्यमुत्तराभासमाह कात्यायनः, -
“एकैकदेशे यत्सत्यमेकदेशे च कारणम् ।
मिथ्या चैकैकदेशे यत् संकरं तदनुत्तरम्" - इति ॥ तच्च सएव विशदयति, -
"न चेकस्मिन् विवादे तु क्रिया स्वादादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियादयम्" - इति ॥ मिथ्याकारणोत्तरयोः सङ्करे श्रर्थिप्रत्यर्थिनोर्द्वयोरपि क्रिया प्राप्नोति ।
Acharya Shri Kailassagarsuri Gyanmandir
मिया चैवैकदेशे, इति का" |
For Private And Personal Use Only