SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । यस्यैव देयमेवैतं' नासम्भावितमर्थिना । इति सम्प्रतिपत्त्याख्यं द्वितीयमिदमुत्तरम् ॥ दत्तमेव ममानेन किन्त्वस्यापि मया पुनः । प्रतिदत्तमितीदृक् च प्रत्यवस्कन्दनं स्मृतम् ॥ अस्मिन्नर्थान्तरे पूर्व प्रारब्धोऽस्म्यहमर्थिना । जितश्चायं मया तत्र प्राङ्न्यायविधिरुच्यते”-इति ॥ मिथ्योत्तरस्थावान्तरभेदमाह मएव, "मिथ्यैतत् नाभिजानामि तदा तत्र न मबिधिः । अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम्” इति ॥ उत्तराभासानाह कात्यायनः, "अप्रसिद्धं विरुद्धं यदत्यल्पमतिभूरि च । मन्दिग्धासम्भवाव्यक्तमन्यार्थञ्चातिदोषववत् ॥ यद्यस्तपदमव्यापि निगूढार्थं तथाऽऽकुलम् । व्याख्यागम्यमसारच नोत्तरं खार्थमिद्धये"-दति ॥ अप्रसिद्धादौन सएव व्याचष्टे, "चिहाकारसहस्रन्तु समयं वाऽविजानता । भाषान्तरेण वा प्रोतमप्रसिद्धन्तदुत्तरम् ॥ प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि । यदेवमाह विज्ञेयं विरुद्धं तदिहोत्तरम् ॥ जितः पुरा मया वन्त अर्थ स्मिबिति भाषितम्।। * इत्यमेव पाठः सर्वत्र । ममतु, तस्यैव देयमेवैतत्, इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy