SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ पराशरमाधवः । कात्यायनः, “यम्य स्यादधिका पौडा कार्य वाऽभ्यधिकं भवेत् । पूर्वपक्षो भवेत्तस्य न यः पूर्व निवेदयेत्” इति । यत्रोभयोरपि परस्परमर्थित्वं प्रत्यर्थित्वञ्च माध्यभेदायुगपङ्गवति, तोटष्टजातेबहुपौडस्य वाऽर्थिनो वादः पूर्व द्रष्टव्यः । तथाच वृहस्पतिः, "अहंपूर्विकयाऽऽयातावर्थिप्रत्यर्थिनौ यदा । वादो वर्णानुपूर्येण ग्रायः पौडामवेक्ष्य च”-इति । समानवर्णत्वे पीडापेक्षया ग्राह्यः । अनेकवादियुग्मानां युगपदुपस्थाने दर्शनक्रममाह मनुः, "अर्थानावुभौ बुध्वा धर्माधम्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्य्यिणम्” इति । इति दर्शनोपक्रमो निरूपितः । अथ चतुष्पाझ्यवहारः प्रस्तूयते ॥ प्रतिज्ञोत्तरं प्रमाणं निर्णयश्चेति चत्वारः पादाः। तत्र प्रतिज्ञा संग्टहाति याज्ञवल्क्यः, "प्रत्यर्थिनोऽग्रतो लेख्यं यथाऽऽवेदितमर्थिना। समामासतद हर्नामजात्यादिचिह्नितम्” इति । एतच वृहस्पतिना स्पष्टीकृतम्, “उपस्थिते ततस्तमिन् वादी पक्ष प्रकल्पयेत् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy