SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org चारकाण्डम् ! Acharya Shri Kailassagarsuri Gyanmandir " व्यवहार इत्यत्र विशब्दो मानेत्येतस्मिन्नर्थे वर्त्तते । अथशब्दख सन्देहे वर्त्तते । तानेतानेवंविधानेकमन्देहहारिणोव्यवहारानर्थादिगतरागदेषवशात् प्राप्तान् राजा सम्यग्विचारयेत् । तद्विचारश्च राज्ञो गुणधर्मरूप श्राचारः । अतएव श्राचारकाण्डे व्यवहाराणामन्तर्भावमभिप्रेत्य पराशरः पृथग्व्यवहार काण्डमकृत्वा, “चितिं धर्मेण पालयेत्" - इति सूचनमाचं व्यवहाराणां कृतवान् । तानेवात्र सूचितान् व्यवहारान् वयं स्मृत्यन्तराणि तन्निबन्धनानि चानुसृत्य यथाशक्ति निरूपयामः । तत्र पूर्वोदाहृताभ्यां रूढियोगस्मृतिभ्यां व्यवहारस्वरूपं निरूपितम् । अथ तद्भेदाः निरूय्यन्ते । तत्र पणत्वापणत्वाभ्यां द्वैविध्यमाह नारदः, -- "मोत्तरोऽनुत्तरश्चेति स विज्ञेयो दिलक्षणः । मोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः” – इति । ई अहं यदि पराजयेयं तदा शास्त्रप्रापिताद्दण्डद्रव्यात अधिकमेव द्रव्यं राजे तुभ्यञ्च दास्यामीति पत्र लिखित्वा यदभिभाषण, तदुत्तरम् । तेन सह वर्त्तते इति सोत्तरः । तद्रहितोऽनुत्तरः । पुनराप (२) अर्थो धनम् । अर्थादिविषय रागदेषवशात् प्राप्तान् व्यवचारान् राजा विधारयेदित्यर्थः । व्यवहारानर्थान् विगतरागदेषवशात् प्राप्तानित्यादिपाठे, प्राप्तान् व्यवहारान् राजा विगतराग देववशात् विचारयेदिति सम्बन्धः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy