SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 पराशरमाधवः। ४ध। ___ कारयेत् कुर्यात् । अनुज्ञातः कनिष्ठोज्येष्ठात् पूर्वमाधानं कुर्यात् । ज्येष्ठधात्रेव पित्राऽप्यनुज्ञातस्य पुत्त्रस्य पर्याधानप्राप्तौ चतुविंशतिमते तनिषिध्यते, "ज्येष्ठभ्राबा वनुज्ञातः कुर्यादग्निपरिग्रहम् । अनुज्ञातोऽपि मन् पित्रा नादल्यान्मनुरब्रवीत्" इति । यत्तु सुमन्नुनोत्रम्, "पितुर्यस्य तु नाधानं कथं पुत्त्रस्तु कारयेत् । अग्निहोत्राधिकारोऽस्ति गवस्य वचनं यथा"-इति । उपनाऽपि, "पिता पितामहोयस्य अग्रजोवाऽथ कम्यचित् । तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने”-दति । तत्पित्रादौनां वैधादिना प्रतिबन्धे सति द्रष्टव्यम् । परिवेदनपाधानयोरिव स्त्रोणं पुनरुद्दाहस्थापि प्रसङ्गात् क्वचित् अभ्यनुज्ञां दर्शयति, नष्टे मृते प्रबजिते स्लीवे च पतिते पतौ। पञ्चवापत्सु नारीणां पतिरन्योविधीयते ॥२८॥ नष्टोदेशान्तरगमनापरिजातवृत्तान्तः। श्रयञ्च अनरुवाहोयुगान्तरविषयः ! तथाचादिपुराणम्, "ऊढ़ायाः पुनरुदाहं ज्येष्ठांशं गोबधं तथा । कलौ पञ्च न कुर्वीत भ्राटजायां कमण्डलुम्”--इति ।' * जलाशब्देन विधिवटूढ़ा ग्राह्या, अन्यत्र पुनरुद्दाहस्यात्राप्यङ्गीकृतस्वात्,-इत्यधिकः पाठः मु. पुस्तके । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy