SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२६ पराशरमाधवः। [१२ ब.। स्थापि प्रायश्चित्तं ब्रूते, किन्तव च्छिद्यते । उदाहृतञ्च शास्त्रं, तच्छान्तिरौषधैरित्यादि । तस्मादारब्धफलस्याप्यस्त्येव प्रायश्चित्तम् । अपरे पुनर्मन्यन्ते। नाख्येवारब्धफलस्य प्रायश्चित्तम्। कुनखित्वादिनिवृत्त्यदर्शनात् । यद्यारब्धफलं प्रायश्चित्तानिवनते, तदा नैसर्गिकमपि कुनखित्वादिकं प्रायश्चित्तान्निवत । न त्वेवमुपलभामहे। यथा मुनस्येषोर्लक्ष्यवेधोऽप्रतिसमाधेयः, तथा प्रारब्धफलं न पतिसमाधातुं शक्यम् । एतदेवाभिप्रेत्य भगवान् वादरायण: सूचयामास । “अनारब्धकार्य एव तु पूर्व दतवधेः (शा. मौ० ४५० १पा. १५सू०)"-इति । अस्थायमर्थः । ये सुकृतदुष्कृते तत्त्वज्ञाननिवर्त्यत्वेन पूर्वयोरधिकरणयो: १) प्रकृते, ते अनारब्धकार्य एव । न वारब्धफलयोः सुकृतदुष्कृतयोनिवृत्तिः । कुतः । तदवधेः । “तस्य तावदेव चिरम्”-दुति श्रुतावुत्पन्नज्ञानस्थापि मोक्षं प्रति शरीरपातावधिश्रवणादिति । __ एवं तर्हि तच्छान्तिरित्यादेः का गतिरिति चेत् । उच्यते । न पत्र प्रायश्चित्तमभिधीयते । तत्प्रकरणे पाठाभावात्। चिकित्माप्रकरणे हि ददं पठितम् । तथाच यथा चिकित्मा रोगनिवृत्तेर्दृष्टउपायः, तथा दानादिरपि दृष्टउपायः। तथा सति चिकित्सावदानादेर्न प्रायश्चित्तत्वम् । किन्तु रोगनिवर्त्तकं किञ्चित्प्रबलं सुकृता * किन्वच्छिद्यते, -- इत्यादी पुस्तकेषु पाठस्त्वसमी चीनः । (१) तदधिगम उत्तर पूर्वाघयोरिति इतरस्याप्येवमसंश्लेषः इति चैत. योरधिकरण यारियर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy