SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ १० प्रायश्चित्तकाण्डम् । ब्रह्मा विश्वसृजोधर्मी महदव्यामेवच ॥ उत्तमा मात्विकौमेतां गतिमाहुर्मनीषिणः । एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ॥ त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्बभौतिकः" इति । अथ प्रेतत्वादिहेतुभ्यः नानाविधेभ्यः पापविशेषेभ्यो योनिविशेषाः अभिहिताः विष्णुधर्मोत्तरे, "असहिष्णुतयाऽन्यस्य गुणानां कारणं विना। महत्पापं समुत्पत्रं तदस्य प्रेतकारणम् ॥ ब्रह्मवहारिणश्चैते पापा:* प्रेतत्वमागताः । परदाररताः केचित् खामिद्रोहरताः परे । मित्रद्रोहरताः केचिद्देशेऽस्मिन् भृशदारुणे। वकर्मभिश्युताः सर्वे जायन्ते प्रेतयोनिषु"-इति ॥ पद्मपुराणे, "अयाज्ययाजकश्चैव याज्यानाञ्च विवर्जकः । विरको विष्णुविद्यासु म प्रेतो जायते नरः ॥ सामान्यदक्षिणां लब्धा ग्टमात्येको विमोहितः । नास्तिक्यभावनिरतः स प्रेतो जायते नरः" इति ॥ स्कान्दे चमत्कारखण्डे, "योभवेन्मानवः बुद्रस्तथा पैशुन्यकारकः । ब्राह्मणान्वयमम्भूतो वृथा मांसाशकश्च यः ॥ * पापात्, इति मु.। 62 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy