SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 880 www. kobatirth.org पराशरमाधवः । Acharya Shri Kailassagarsuri Gyanmandir [१२ ० । ऊर्द्धञ्चतुभ्र्भ्यामामेभ्यो यश्चिरमध्यापनं नचत्र निर्देशनं चेति । द्वादशमामान् द्वादशार्द्धमासान् द्वादश द्वादशाहान् द्वादश षड़हान् द्वादश त्र्यहान् त्र्यहमेकाहमिति अशुचिकर निर्देश : " - इति । तदभ्यास विषयम्। यदप्याह प्रचेताः। “अनृतवाक् तस्करोराजभृत्यो वृक्षारोपकटत्तिर्गरदोऽग्निदश्च रथगजारोहणवृत्तिः रङ्गोपजीवी श्वगणिकः शृद्रोपाध्यायो वृषलीपतिर्भाण्डिको नचत्रोपजीवी श्ववृत्तिर्ब्रह्मजीवो चिकित्सको देवलकः पुरोहितः कितवोमद्यपः कूटकारकोऽपत्यविकयौ मनुष्य विक्रेता चेति । तानुद्धरेत्समेत्य न्यायतो ब्राह्मणोव्यवस्यया सर्व्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं चिषवणमुपस्पृशेयुः । तस्यान्ते देवपितृतर्पणं गवान्हिकं चेत्येवं व्यवहाय्यौः " - इति । तदभ्यासविषयम् । For Private And Personal Use Only अनाश्रमवासे हारीतेन प्रायश्चित्तमुक्रम् । “ श्राश्रमी संवत्सरं प्राजापत्यं कृच्छ्रं चरित्वाऽऽश्रममुपेयात्, द्वितीयेऽतिकृच्छ्रं दतौये कृच्छ्रातिकृच्छ्रमत ऊर्द्धं चान्द्रायणम्" - इति । शूद्रसेवायां बौधायन श्राह । "समुद्रयाने ब्राह्मणन्यासापहरणे सर्व्वीपण्यैर्व्यवहरणे भूम्यनृते शूद्रसेवायाञ्च शूद्रायामभिजायते तदपत्यञ्च भवति । तेषाञ्च निर्देशश्चतुर्थकालं मितभोजनाः स्युः अपोऽभ्युपेयुः सवनानुकल्पस्थानासनाभ्यां विहरन्तएते त्रिभिर्व्वर्षैस्तदपहन्ति पापम् " - दूति । तद्वहुकालाभ्यासविषयम् । उपपातकानन्तरं जातिभ्रंशकराणि विष्णुनाऽनुक्रान्तानि । “ब्राह्मणस्य रुजः करणं अघ्रेयमद्ययोतिः ज्येच्यं पश्ऽषु मैथुनाचरणं चेति जातिभ्रंशकराणि”। तेषु साधारणं प्रायश्चित्तं मनुविष्णू श्राहतुः
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy