SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२१०। प्रायश्चित्तकाण्डम् । १३५ वृथाऽऽसम्भेऽनुगच्छेद् गान्दिनमेकं पयोव्रतम्" इति । एतच्च यज्ञार्थवृक्षच्छेदनादिव्यतिरिक्तविषयम् । श्रतएव याज्ञवरक्योऽपि वृथेति विभिनष्टि, "वृक्षगुल्मस्ततावीरुच्छेदने जप्यमृक्शतम् । स्थादोषधिवृथाच्छेदौ चौराशी गोऽनुगोदिनम्” इति । यत्तु हारौतेनोक्रम् । “स्थावरसरीसृपादौनां बधे यस्येदं प्राणमित्येतयाऽऽज्यं हुवा तिलपात्रं ब्राह्मणाय दद्यात्”-इति। तदश्वत्यादिपुण्यस्थावरविषयम् । महाफलप्रदस्य पनसनारिकेलादिवृक्षजातस्य च्छेदनावृत्तौ शङ्ख पाह, “संवत्मरव्रतं कुर्याच्छित्वा वृक्षं फलप्रदम्” इति । दृष्टार्थत्वेऽपि कर्षणाङ्गभूत हलाद्यर्थत्वे न दोषः । “फलपुष्योपगान् पादपान हिंस्यात् कर्षणकार्यार्थमुपहन्यात्”-इति स्मरणात्। नास्तिक्यन्तु वाचनिकं चेत्तदुपपातकम्। यथाऽऽः पौराणिकाः, "नास्तिकास्त्रिविधाः प्रोका धर्मजैस्तत्त्वदर्भिभिः । क्रियादुष्टो मनोदुष्टो वाग्दुष्टश्च तथैवच ॥ उपपातको तु वाग्दुष्टो मनोदुष्टोऽनुपातको । अभ्यासात्तु* क्रियादुष्टो महापातक इष्यते”-इति ॥ तत्रोपपातकनास्तिक्ये वसिष्ठ आह। “नास्तिकः कच्छं द्वादशरात्रं चरित्वा विरमेनास्तिक्यात्”-इति। यत्तु शङ्खनोक्तम्। “नास्तिकोनास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याऽभिशंसौत्येते पञ्च संवत्सरं ब्राछाणण्टहे भैक्षं चरेयुः” इति । तदेतत् महापातकनास्तिक्यविषयम् । * अभ्यासेन, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy