SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ प० । प्रायश्चित्तकाण्डम् । ३८५ यो ऽश्वत्थः शमोगर्भः, - इत्यादिभिर्मन्त्रः संस्कृतो वहिमथनोपयुक्रः काष्ठविशेषोऽरणिः । सुमणि: पद्मरागादिः । अथ गोचर्मदानं विधातुं गोचर्मनिरूपणमाह,-- गवां शतं सैकषं यव तिष्ठत्ययन्त्रितम् । तत् क्षेचं दशगुणितं गोचर्म परिकीर्तितम्॥४८॥ इति। एकेन वृषेण महितं गोमतं सैकषम्। तच्च गोशतं नियन्त्रणरहितं विश्रामाय यावन्तं भूप्रदेशमाक्रम्यावतिष्ठते, तावान् भूप्रदेशोदशगुणितः सन् गोचर्मशब्देनाभिधीयते । मनुस्त प्रकारान्त "तिर्यग्यवोदराण्यष्टावूर्द्धा वा बौहयस्त्रयः । प्रमाणमङ्गुलस्योकं वितस्तिदशाङ्गुला ॥ वितस्तिद्वितयं हस्त इति खायम्भुवोऽब्रवीत् । दशहस्तेन दण्डेन त्रिशतन्नु समन्ततः । पञ्च चाभ्यधिकं कृत्वा एतहोचर्म कौर्तितम्” इति ॥ दृद्धमनुः, "सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्त्तनम् । तान्येव दश गोचर्म दत्वा पापैः प्रमुच्यते” इति । पापक्षयकामिनां गोचर्मदानं विधत्ते,ब्रह्मइत्यादिभिर्मयों मनोवाकायकर्मजैः । एतहीचर्मदानेन मुच्यते सर्वकिल्विषैः ॥४६॥ इति। 1 ) For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy