SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [११ प.। “एकैकं पिण्डमनीयात् व्यहं कल्ये अहं निशि । अयाचितस्त्यहं चैव वायुभक्षः परं अहम् ॥ अतिकृच्छं चरेदेतत् पवित्रं पापनाशनम्” इति ॥ अतिमानादतिक्रोधादित्यारभ्य कृच्छोऽभ्यन्तरशोणिते, इत्यन्तेस्वष्टस्खध्यायेषु नानाविधान् पापविशेषाननूद्य प्रायश्चित्तविशेषा निरूपिताः । यानि त्वन्यानि प्रतिपदोकप्रायश्चित्तरहितानि, तेषां माधारणं प्रायश्चित्तमाह,सर्वेषामेव पापानां सङ्करे समुपस्थिते॥ ५५ ॥ दशसाहस्रमभ्यस्ता गायची शोधनं परम् । इति । श्रयश्च गायत्रीजपः प्राजापत्यादीनामुपलक्षकः । तानि च प्रतिपदोकप्रायश्चित्तव्यतिरिक्तानि प्रतानि मुनिभिः प्रपञ्चितानि । तत्र मनुविष्णुविश्वामित्राः, "अनुक्रनिष्कृतौनान्तु पापानामपनुत्तये । शक्ति चावेक्ष्य पापञ्च प्रायश्चित्तं प्रकल्पयेत्” इति । याज्ञवल्क्यः, "देशं कालं वयः शक्तिं पापं गावेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्का न निष्कृतिः” इति। मङ्खलिखितौ। "क्रयविक्रयदुष्टभोजनप्रतिग्रहेष्वनादिष्टप्रायश्चित्तेषु सर्वेषु चान्द्रायणं प्राजापत्यञ्च”-दति। स्मृत्यन्तरे, “भक्ष्याभक्ष्याण्यनेकानि ब्राह्मणनां विशेषतः । तत्र शिष्टा यथा ब्रूयुम्तत्कर्त्तव्यमिति स्मृतिः" इति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy