________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
११ ० ।]
प्रायवित्तकाण्डम् |
तदभ्यासविषयम् । पादस्पर्शादौ सएवाह, -
“पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया । दिवसोपोषितः खात्वा प्रणिपत्य प्रसादयेत् ॥ श्रवाच्यं ब्राह्मणस्योक्ला प्रायश्चित्तं विधीयते । कृच्छ्रातिच्छ्रं कृत्वा तु प्रणिपत्य प्रसादयेत् ॥ श्रक्रोशमनृतं कृत्वा कृच्छ्रं कुर्वीत मानवः" -- इति । ब्राह्मणावगोरादौ प्रायश्वित्तमाह-अवगूर्य्य त्वहाराचं चिराचं क्षितिपातने ॥ ५३ ॥ अतिकृच्छ्रश्च रुधिरे लच्छोऽभ्यन्तरशोणिते । इति ॥
श्रवगूर्य्य बधार्थं दण्डमुद्यम्य, दिनमेकमुपवसेत् । भूमौ निपात्य त्रिरात्रमुपवसेत् | प्रहारेण रुधिरे निर्गते प्रतिकृच्छ्रं चरेत् । श्रनिर्गतं रुधिरमन्तरेकच * घनीभूतञ्चेत्, तदा कृच्छ्रं चरेत् । श्रवगोरणादेः शतसंवत्सरादिनरकहेतुत्वापन्यास पुरःसरं प्रतिषेधः प्रत्यचश्रुतावुपलभ्यते । तथा च तैत्तिरीय ब्राह्मणम् । “योऽवगुरेत्, शतेन यातयात् योनिहनेत् सहस्रेण यातयात्, यो लोहितं करवत् यावतः प्रस्कन्द्य यावतः पांशून् संग्टहात्तावतः संवत्सरान् पिढलोकं न प्रजानादिति, तस्माद्ब्रह्मणाय नावगुरेत् न निहन्यात् न लोहितं कुर्य्यादेतावता हेनसाऽयुक्रो भवति "-- इति । गौतमोऽपि । “अभिकु - यावगुरणं ब्राह्मणस्य वर्षशतमस्वयें, निपाते सहस्रं, लोहितदर्शने यावतः प्रस्कन्द्य पांशून् संग्टलीयात् " -- इति । मनुरपि,--
1
I
* अन्तरे कुत्रचित्, – इति मु० । + निहते, इति मु० ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
BLO