________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ १०]
प्रायश्चित्तकाण्डम् ।
३३६
"खदासो नापितो गोपः कुम्भकारः कृषौवलः ।
ब्राह्मणैरपि भोक्तव्याः पञ्चैते शूद्रयोनयः" इति ॥ स्मृत्यन्तरेऽपि। “गोपालनापितकुम्भकारकुलमित्रा सौरिनिवेदितात्मनोभोज्यानाः"--इति ।
पूर्वत्राभोज्यानानां नटादौनामन्ने भुक्ने प्रायश्चित्तमभिहितम् । इदानौं तेषामेव जलादौ पौते प्रायश्चित्तं प्रश्नपूर्वकमाह,
भाण्डस्थितमभोज्येषु जलं दधि एतं पयः । अकामतस्तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् ॥२५॥ जाह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति । ब्रह्मक)पवासेन याज्यवर्णस्या निष्कृतिः॥२६॥ शूद्रस्य नापवासः स्यात् शूद्रो दानेन शुद्ध्यति। ब्रह्मवर्चमहोरात्रंश्वपाकमपि शोधयेत्॥२७॥ इति।
अभोज्येष्वभोज्यानानां नटादौनां रहेषु यद्भाण्डं तत्र स्थितं जस्लादिकं पात्रान्तरन्यवधानमकृत्वा भुक्तं चेत्, तदा ब्रह्मकूचं पातव्यम्। यथा सूतकान्ने ब्राह्मणादिवर्णभेदेन व्रतभेदा अभिहिताः, न तथा जलादिपाने; किन्तु चतुर्णामपि वर्णानां ब्रह्मकूचं समानमित्यभिप्रेत्य
* सदासो,-इति मु.। । शुद्धयोनयः,-इति शा। । योज्या वर्णस्य,-इत्यशुद्धः पाठ बाद पुस्तकेषु ।
For Private And Personal Use Only