SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ११ ० ।] प्रायश्वित्तकाण्डम् | तेन रक्रलशुनकृष्णवृन्ताकादौ नेदं प्रायश्चित्तमित्युक्तं भवति । ग्टनं पत्रविशेषः। यदौयं चूर्णं गायकाः कण्ठशार्थं भक्षयन्ति । विटाच स्वराद्यर्थम्' । मूलविशेषो वा ग्टञ्जनापरपर्य्यायः । पलाण्डुः स्थूलकन्दीलशुनविशेषः । वृचनिर्यासेो हिङ्गुकर्पूरादिव्यतिरिक्तः । हिंग्वादीनां भोज्यत्वाभ्यनुज्ञानात् । देवतार्थमुपकल्पिते चेत्रादावुत्पन्नमत्रं देवस्वम् । कवकं भूमौ छत्राद्याकारेणोत्पन्नं शिलीन्धुशब्दवाच्यम् । पौथूषादिभोजी चिराचमुपोष्य चतुर्थे दिवसे पञ्चगव्यं पिबेत् । मतिपूर्वे तु भोजने मनुराह - “छत्राकं विवराहञ्च लशुनं ग्राम्यकुक्कुटम् 1 पलाण्डुग्टञ्जनं चैव मत्या जग्ध्वा पतेद्दिजः " - इति ॥ श्रमतिपूर्व्वे सएवाह, -- “श्रमत्येतानि षड् जग्ध्वा कृच्छं मान्तपनं चरेत् । यतिचान्द्रायणं वाऽपि शेषेषूपवसेदहः " - इति ॥ Acharya Shri Kailassagarsuri Gyanmandir * वेश्यास्ख मदाद्यर्थम्, -- इति मु० । + क्षुद्रवृन्ताकम् - इति मु० । तच सप्तरात्रात्मकं सान्तपनं वेदितव्यम् । “ श्रबुद्धिपूर्वै सान्तपनं सप्तराचं वा" - इति गौतमेन सप्तरात्रोपवाससमविकल्पस्मरणत् । एवञ्च सति मूलवचनोक्तत्र्यहोपवासोभक्षितोद्गारित विषयः द्रष्टव्यः । चान्द्रायणन्त्वावृत्तिविषयम् । शेषेषूपवसेदहरित्येतत् कुसुम्भादिषु द्रष्टव्यम् । तथा चतुर्विंशतिमते, - " पलाण्डुं श्वेतवृन्ताक कुसुम्भं वनकुक्कुटम् । For Private And Personal Use Only ३१७
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy