________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२
पराशरमाधयः।
[१.प.।
घोषिकतापराधेन न केवलं तस्थाः प्रायश्चित्तं किन्तु तद्भर्तुरपौत्याह,पतत्यई शरीरस्य यस्य भार्या सुरां पिवेत् । पतिताईशरीरस्य निष्कतिर्न विधीयते ॥२५॥ इति ॥
यस्य विप्रस्य ब्राह्मण्यादिषु चतसृषु भार्यास्तु अन्यतमा या काचिसुरां पिवेत् तस्य विप्रस्य स्त्रीपुंमदयात्मकं यत् भरौरं, तस्य भरौरस्थाई स्त्रीरूपं पतति । स्त्रिया अर्द्धशरीरत्वं श्रुतिप्रसिद्धम् । "अद्धी वाएष श्रात्मनोयत् पत्नी"-इति।
तत्र पतितस्वार्द्धशरीरस्य स्त्रीरूपस्य सुरापानप्रोतवतव्यतिरिकेन खल्पव्रतेन निष्कृतिः परिद्धिर्न विद्यते, किन्तु सुरापानव्रतमेव नया कार्यमित्यर्थः । यदा, पतितं स्त्रीरूपमर्द्धशरोरं यस्य पुरुषस्थासौ पतितार्द्धशरीरः । तस्य स्वयं सुरामपिवतोऽपि भार्याहतापराधेन निष्कृतिः परिशुद्धिः कर्माधिकारलक्षण न विद्यते। अतस्तदधिकारमियर्थं तेन प्रायश्चित्तमाचरितव्यम् । एतदेवाभिप्रेत्य मनुवमिष्ठाभ्यामेतदेव वचनं पठितम् ।
योपित्तवापराधेन पुरुषस्य यथा प्रत्यवायः, तथा पुरुषानुष्ठितधर्मेण योषितो निष्कृतिर्भविष्यतीति न शङ्कनौयं, यतो याज्ञवल्क्य वाह
* योषित्कृतापराधो न केवलं तस्याः प्रायश्चित्तमायादयति,
इति मु.। + र्भवतीति, इति मु.।
For Private And Personal Use Only