SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्त काण्डम् । मानभार्याधिक्षेपादिजन्या मानहानिरतिमानः । पुत्रमित्रादिवौषत्प्रतिकूलेषु सत्वपराधान्यत्वमपरामृश्य क्रियमाणो वेगाविष्टोमहान् कोपोऽतिकोधः । स्नेहभययोरप्यतिशब्दोऽनुषचनौयः । अन्यथा मुमूर्षाऽनुपपत्तेः । प्रतिस्नेहस्य मुमूर्षा हेतुत्वं द्रोणाचार्यदशरथादो प्रसिद्धम्, अतिभयस्य चापराधिनि भृत्यादौ । निमित्तवैषम्येऽपि दमरणत्वं ममम्, इति दर्शयितुमनेकनिमित्तोपन्यासः। किञ्चित् स्त्रियं प्रत्येव निषियते । तद्यथा। धर्मेऽस्वातन्त्र्यम् । “अस्वतन्त्रा धर्म स्वी"-इति गोतमम्मरणात्। किञ्चित् पुरुषं प्रत्येव निषियते । तद्यथा। “योऽनधीत्य द्विजावेदान अन्यत्र कुरुते श्रमम् । म जौवनेव शुद्रत्वमाशु गच्छति मान्वयः" इति । उद्दन्धनन्तु दयोस्तुच्यम्, इति विवक्षया, स्वौ पुमान् वा,इत्युक्तम् । गनिरिति नरकप्राप्तिः। एषा समनन्तरश्नोकेन वक्ष्यमाणा विधीयते ज्ञाप्यते । प्रतिज्ञातां गतिं दर्शयति, पूयशोणितसम्पूर्णे त्वन्धे तमसि मज्जति । षष्ठोवर्षसहस्राणि नरकं प्रतिपद्यते ॥२॥ अन्धं तमस्तौवनरकविशेषः। 'तामित्रमन्धतामिश्रम्'-दति [दाहरन्ति । तौबत्वाभिव्यकये षष्ठीरित्यत्यन्तसंयोगे द्वितीया। अस्त्वेवमतिकटत्वमुद्दन्धनमरणस्य, किन्ततः ? इत्याशय फलितं दर्शयन् * प्रतिज्ञा,-इत्यधिक मु०। + धष्ठिं वष सहश्राणि,- इति वङ्गोयपुस्तकेय प्रायः ! For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy