SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ पराशरमाधवः। तत् पापं तस्य तिष्ठेत वका च नरकं व्रजेत् ॥ यत्किञ्चित् क्रियते पापं सर्वे केशेषु तिष्ठति । तस्मात् सर्वप्रयाबेन मशिखं कारयेटिज:(१)” इति । स्वोर्ण तु वपने विशेषमाह,सर्वान् केशान् समुद्धृत्य छेदयेदलहयम् ॥५४॥ इति । एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम्। मारौयहणेनैव कुमारीणामपि ग्रहणे सिद्धे पृथगुपादानं विधवासु वपनाङ्गोकारद्योतनार्थम्। नात्र नारौशब्दः स्वौमात्रवाचौ, किन्त सभर्तकस्वौवाची, कुमार्यस्तु विवाहरहिताः। तथाच, सभडकाणं विवाहरहितानां चैतदुकं भवति(२) । ततो विधवानां मात्ममा मौण्डामौकृतं भवति । पूर्वानेषु प्रताङ्गेषु कानिचिदनानि स्त्रीणामपवदति,न स्त्रियाः केशवपनं न दूरे शयनाशनम् ॥५५॥ (१) सशिखं वपनं कारयेदित्यर्थः । (२) नारीशब्दस्य स्त्रीमानपरत्वे कुमारौपदं व्यर्थं स्यात् । तथाच नारी पदं सधवापरं। नरेण पुंसा संबन्धित्वात्तस्याः। एवञ्च सति विधवानां सर्वात्मना मुण्डनमौकृतं भवति। "सधवानान्तु नारीणामनाराय सर्वदा । केशसन्धारणं प्रोक्तं प्रायश्चित्ते दिलोत्तमः" इति, "विधवाकवरीबन्धो भर्तबन्धाय जायते । शिरसावपनं तस्मात् कार्य विधवया सदा"-इति चानयर्विधनयोतात्पर्य पालोधनयाऽप्येतत् सिध्यति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy