________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ ब.]
प्रायश्चित्तकाण्डम् ।
२०३
द्वादशरात्रषोड़शरात्ररूपाणं चतुर्बिधानां बच्छ्राणं वालवत्मादिविषयाणं पूर्वमभिहितत्वात् पुनरुतमिति चेत्। न । रोधादिनिमित्तस्य पूर्वमनुपलभ्यमानत्वात् । तत्र हि केवलं रजन्यादौ रक्षणार्थं पाणबद्धानां यादृच्छिकमरणमुपन्यस्तम् । एवं तर्हि रोधादीनां पुरुषापराधत्वेनाधिकं प्रायश्चित्तं वतव्यमिति चेत् । न, रोधनौयस्य वत्मादेः शूद्रखामिकत्वादिलक्षणस्य होननिमित्तस्थात्र कल्पनौयत्वात्। तस्मात् न कोऽपि विरोधः । __ बनिमित्तस्य रोधस्य स्वरूपमाह,गोष्ठे वाऽपि* गृहे वाऽपि दर्गेधप्यसमस्थले ॥४॥ नदोषथ समुद्रेषु त्वन्येषु च नदोमुखे । दग्धदेशे मृता गावः स्तम्भनाद्रोध उच्यते ॥५॥
दुर्गाणि पर्वतसंकीर्णमार्गादौनि। असमस्थलं निखोबतप्रदेशः । अन्येषु वापौतड़ागादिषु। नदीमुखं समुद्रनदीमङ्गमप्रदेशः। दग्धदेशो दावान्यादिना दग्धः सत्रुष्णभस्माक्रान्तप्रदेशः। यथोकेषु स्थानेषु स्तम्भनागावो स्मृता भवन्ति । अतस्तादृशस्तम्भनमात्र रोधउच्यते। ईदृशरोधनिमित्तं प्रायश्चित्तमापस्तम्बबाह,
"कान्तारेवथ दुर्गेषु ग्रहदाहभयेषु च । यदि तत्र विपत्तिः स्यात् पादएको विधीयते” इति ॥
* गोवाटे वा,-इति शा० स० । + नदीष्वथ समुद्रेवन्येषु नदीमुखेषु च,-इति शा। है पळताग्रसत्रौर्या मार्गानीति,-इति मु.।
For Private And Personal Use Only