SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाण्डम्। एवं पापात् समुद्धृत्य तेन तुल्यं फलं लभेत्”--इति । सर्वथा दद्यादित्ययं नियमो यथाविध्युपपन्नविषयः । तथा च हारोतः, “यनादेव पुरस्कृत्य विप्रांस्तत्र दशावरान् । प्रणिपत्य च भल्या च प्रायश्चित्तं विनिर्दिशेत्" इति ॥ विनिर्दिशेत् याचेत, इति यावत् । यथाविध्युपपत्त्यभावे प्रायश्चित्तं न देयम् । तदाहाङ्गिराः, "अनर्चितैरनाइतैरपृष्टश्च यथाविधि । प्रायश्चित्तं न दातव्यं जनद्भिरपि च द्विजैः” इति !! ज्ञानेनाज्ञानेन वा प्रायश्चित्तस्यान्यथानिर्देशे प्रत्यवायं सएवाह, "अजानन्यस्तु विब्रूयाजानन्यश्चान्यथा वदेत् । उभयोहि तयोर्दोषः पक्षयोरुभयोरपि”-इति ॥ विधित्सितस्य प्रायश्चित्तस्य गौरवलाघवनिर्णयाय देशकालादयः परोक्षणीयाः । तदाह बौधायनः, "भरीरं वलमायुश्च वयः कालच्च कर्म च । समौक्ष्य धर्मविद्युझ्या प्रायश्चित्तं प्रकल्पयेत्”- इति । हारौतोऽपि, “यथावयो यथाकालं यथाप्राणं च ब्राह्मणे । प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्मपाठकैः । येन शुद्धिमवाप्नोति न च प्राणैर्वियुज्यते । आत्ति वा महतौं याति न चैतद् व्रतमादिशेत्” इति ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy