________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
१७६
“प्रायश्चित्तं यदानातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्यादर्दू वैश्यः समाचरेत् ।
शूद्रः समाचरेत् पादमशेषेष्वपि पामसु”-इति । इत्यं प्रायश्चित्तिना कर्त्तव्यमुपस्थानं उपस्थेया परिषञ्चेत्युभयं निरूपितम् । अथ व्रतादेशनं निरूपणीयं, तस्थोपस्थानानन्तरभावित्वात् । अनन्तरभावश्चाङ्गिरसा दर्शितः,
“उपस्थानं बतादेशः खौचाशुद्धिप्रकाशनम् ।
प्रायश्चित्तं चतुष्कञ्च विहितं धर्मकर्दभिः" इति । तदेतद्वतादेशनं राजानुमत्या कर्त्तव्यमित्याह,राज्ञश्चानुमते स्थित्वा प्रायश्चित्तं विनिर्दिशेत् । स्वयमेव न कर्त्तव्यं कर्तव्या स्वल्यनिष्कृतिः ॥२८॥
अत्र गोबधस्य प्रकृतत्वात् नमारभ्याधिकेषु पापेषु राजानुचयेव व्रतं निर्दिशेत् । न तु राजानं वञ्चयित्वा वयं तत् कर्त्तव्यम् । गोबधादल्पेषु तु पापेषु विनाऽपि राजानुज्ञां निष्कृतिर्दातं शक्यते । एतञ्च देवलोऽप्याह,
"याचितस्तेन चेत् पापे ब्राह्मण: पापभौरुणा । निष्कृतिं व्यवहारार्थं कुर्यात्तस्मै नपाज्ञया । स्वयं च ब्राह्मणैः कृच्छ्रमल्यदोषे विधीयते ।
राजा च ब्राह्मणश्चैव महत्सु सुपरौक्ष्य च” इति ॥ हारीतोऽपि. “राजोऽनुमतिमाश्रित्य प्रायश्चित्तानि दापयेत् ।
For Private And Personal Use Only