SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० पराशरमाधवः। मति(१), तथापि परीक्षामकृत्वा प्रायश्चित्तं विधातुरयथाशास्त्रानुछाननिमित्तं पापान्तरमुदेतीत्यभिप्रेत्य तत्पापं तेषु गच्छतौत्युक्तमिति(२) । एवं प्रायश्चित्ताधिकारिणं सम्यक् परीक्ष्य प्रायश्चित्तं विधेयम् । तदाह देवलः, "कर्तारं देशकालौ च प्रमाणं कारणं क्रियाम्। अवेक्ष्य च बलञ्चैव प्रायश्चित्तं विधीयते"-दति ॥ बौधायनोऽपि,... "शरीरं बलमायुश्च वयः कालं च कर्म च । परीक्ष्य धर्मविद्यया* प्रायश्चित्तं प्रकल्पयेत्”-दति ।। अनुग्रहमनर्हतः प्रबलस्यानुग्रहे यथा प्रत्यवायः, तथाऽनुग्रहयोग्यस्य दुर्बलस्य नियमविधानेऽपि प्रत्यवायइत्याह,शरीरस्यात्यये प्राप्ते वदन्ति नियमन्तु ये ॥५७॥ महत्कार्योंपरोधेन न स्वस्थस्य कदाचन । शरीरस्यात्यये मुमूर्षा म्यां प्रायनं, तस्मिन् प्राप्ते सति, तेन कर्तुमशक्यं प्रायश्चित्तव्रतादिनियमो कर्तव्यत्वेन ये वदन्ति, तेषु * धर्मविदुषा,-इति स० प्रा० । + प्राजापत्यव्रतादिनियम,-इति मु० । (१) समवेतस्य पापस्य विद्यमानखाश्रयत्यागेनापराश्रय प्राप्तरसम्भवादिति भावः। (२) तथाच, तत्पापं तत्सहा पापान्तमित्यर्थः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy