________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,या का०]
पराशरमाधवः।
पात्रे । स्वयमिति वचनात् वयं परिवेषणं मुख्यम् । अतएव वायुपुराणम्,
"फलस्थानन्तता प्रोता स्वयं तु परिवेषणात्" इति । यत्तु तत्रैवोत्रम्,
“परिवेषणं प्रशस्तं हि भार्यया पिलटतये ।
पिटदेवमनुष्याणां स्त्रीसहायोयतः स्मृतः" इति । तदितरापेक्षया वेदितव्यम् । भार्ययाऽपि सवर्णयैव परिवेषणं कार्य्यम् । तथा च नारायणः,
“यट्रव्यं यत्पवित्रञ्च यत्पिश्यं यत्सुखावहम् ।
द्विजातिभ्यः सवर्णया हस्तेनैव तु दीयते” इति । हस्तेन हस्तदयेनेत्यर्थः । हस्तेनापि न साक्षाद् देयं, अपितु दादिद्वारा । अतएव वृद्धशातातपः,
"उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्" इति । मस्येनोक्रम्',
"हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनादयः ।
दातारन्नोपतिष्ठन्ति भोका भुनौत किल्विषम्"- इति । विष्णुपुराणेऽपि,
"नापवित्रेण हस्तेन नैकेन न विना कुशम् ।
नायसेनैव पात्रेण श्राद्धेषु परिवेषयेत्” इति । पायसेन अयोमयपात्रेण नैव परिवेषयेत् । परिवेषणे कानि
* हस्तन, इत्यादिः रतदन्तोग्रन्थो नास्ति ना• पुस्तके ।
For Private And Personal