SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पा,पाका०] पराशरमाधवः। विजेऽस वा"-इति । अमाहितानिशब्देनार्धाधानेनाहितामिर्टयते । अखनौकरणं जलसमोपे श्राद्धकरणे वेदितव्यम् । तदाह कात्यायनः, "विष्णुधर्मोत्तरे वाऽसु मार्कण्डेयनयः स्मृतः । .. स यदाऽपां समीपे स्थानाद्धं ज्ञेयो विधिस्तदा" इति । यत्तु मनुनोतम्, "अन्यभावे तु विप्रस्थ पाणवेवोपपादयेत्” इति । तयाचारिविषयम् । तदाह जाकर्ण्यः, "अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दक्षिणे । अन्धभावः मतस्तावद्यावहाऱ्यां न विन्दति" इति । विद्यमानेऽप्यनौ काम्यादिषु चतर्ष श्राद्धेषु ब्राधणपाणवेव होमः । तदाहाकाराः,- ... “अन्वष्टक्यं च पूर्वद्युर्मामिमामि च पाळणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुर्बाधेषु मानौनामग्रौ होमो विधीयते । । पियब्राह्मणहस्ते स्थादुत्तरेषु चतुर्वपि” इति । "हेमन्तगिभिरयोश्चतर्णमपरपक्षाणामष्टम्योऽष्टकाः" इति विहितान्यष्टकाश्राद्धानि। तत्राष्टकाश्राद्धानामुत्तरदिने नवम्या क्रियमाणं श्राद्धमन्वष्टक्यम् । पूर्वयुः सप्तम्यां क्रियमाणं श्राद्धं 'पूर्वद्युः'इति पदेन लक्षणयोक्तम् । प्रतिमासं क्रियमाणमापरपक्षिकं श्राद्धं 'मासिमामि' इत्यनेनोक्तम्। पार्वणं सर्वश्राद्धप्रकृतीभूतममावस्याश्राद्धम्। काम्यं पुत्रादिफलकाममया क्रियमाणं श्राद्धम्। आभ्यु For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy