SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [११.या का। परिहारेणैकाथ्य यथा भवति, तथोपविष्टमित्यर्थः । ऐकाय्य-प्रामीनमहातेजः-पदानि पूर्व व्याख्यातानि ॥ 'अञ्चलि'-पदेन भक्त्यतिशयोद्योत्यते । परया भक्त्या गुरूपदिटार्थ-तत्त्वमाविर्भवति । तथाच, श्वेताश्वतर-शाखायां श्रूयते, “यस्य देवे परा भक्तिर्यथा देवे तथा गुरी । तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः" । इति । अन्तरेण गुरुभकिमुपदिष्टोऽप्यानिष्फलोभवति। तदपि कचित् श्रूयते, "अध्यापिता ये गुरून् * माद्रियन्ते विप्रावाचा मनसा कर्मणा वा । यथैव ते न गुरुभिजनीया तथैव तान् न भुनक्ति श्रुतं तत्" । इति । यथा गुरुमनाट्रियमाणाः शिय्या: न गुरुणा पालनीग:(१) तथा तत् श्रुतमपि तान् शिष्यान् ख-फल-दानेन न पालयति,इत्यर्थः । देववद्गुरोः पूजनीयत्वात् तस्मिन् प्रदक्षिणादयोयुज्यन्ते । नहि, आवाहनासन-स्वागतादयोऽप्युपचाराः प्राप्यन्ते, इति चेत्, प्राप्यन्तां नाम, प्रदक्षिणादीनामुपलक्षणत्वात् । अथवा,-दूरादागत्य - * गुरू,-इति स० स० पुस्तकयोः पाठः । + गुरोजिनीयाः, इति स० से. पुस्तकयोः पाठः । तत् श्रुतमधीतान्,-इति मु० पुस्तके पाठः । (१) 'भुजपालनाभ्यवहारयो'-इति धातुपाठादयम लभ्यते । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy