SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०,या का पराशरमाधवः। "शिवनेत्रोद्भव(१) यस्मादतस्तत् पित्वालभम् । अमङ्गलं तत् यत्नेन देवकार्येषु वर्जितम्” इति ॥ अर्घ्यपवित्रकं प्रतिपात्रं भेदेन कार्यम् । तदुक्तं चतुर्विशतिमते,___ "डे वे शलाके देवानां पात्रे कृत्वा पयः चिपेत्” । पवित्रकरणेतिकर्त्तव्यतामाह याज्ञवल्क्यः, “पवित्र स्थ इति मन्त्रेण वे पवित्र च कारयेत् । .. अन्तर्दर्भ कुशच्छिन्ने कौशे प्रादेशसमिते” इति । कुशछिन्नति कुशमन्तरे कृत्वा छिन्ने। अतएव यज्ञपार्श्वः, "श्रोषधौमन्तरे कृत्वा अङ्गष्ठाङ्गलिपर्वणोः । छिन्द्यात् प्रादेशमात्रन्तु पवित्रं विष्णुरब्रवीत् ॥ न नखेन न काष्ठेन न लोहेन न मृण्मयात्"-दुति ! अनन्तरं, स्वाहाा इति मन्त्रेण देवतार्थं ब्राह्मणसमीपेऽर्घ्यपात्रं स्थापयेत् । तथाच गार्यः,___ "खाहेति चैव देवानां होमकर्मण्युदाहरेत्” इति । देवानां होमकर्मण्यय॑दाने कर्मण्युपस्थिते पात्रं स्थापयितुं खाहाा इति मन्त्रमुच्चारयेदिति प्रकरणदेव गम्यते । अर्ध्वपाचं स्थापयित्वा विप्रहस्तेऽयं दद्यात्। तदाह याज्ञवल्क्यः, “या दिव्या इति मन्त्रेण हस्तेम्वयं विनिक्षिपेत् ।” अर्घ्यदाने विशेषमाह गार्यः, "दत्त्वा हस्ते पवित्रन्तु संपूज्यार्थ विनिक्षिपेत्” इति । (१) “सोऽरोदौत्, यदरोदौत् तत् रुद्रस्य रुद्रत्वं तस्य यदश्र व्यशौर्यत तमजतमभवत्" इति ब्राह्मणवाक्यमधानुसन्धेयम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy