SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०,पाका०] पराशरमाधवः। ७२१ पार्मराजतताम्राणि पात्राणि स्यात्ममिन्मधु । पुष्यधूपसुगन्धादि क्षौमसूत्रञ्च मेक्षणम्" इति ॥ तिला जर्तिला ग्राह्यास्तदसम्भवे ग्राम्याः। जलिलक्षणमुक्तं सत्यव्रतेन, "जर्तिलास्तु तिलाः प्रोक्ता कृष्णवर्णा वनेभवाः" इति। तेषां प्रशस्तत्वमापस्तम्ब शाह, "अटव्यां ये समुत्पन्ना अकृष्टफलितास्तथा । ते वै श्राद्धे पवित्रास्तु तिलास्ते न तिलास्तिलाः'"-इति ॥ निमन्त्रितत्राहाणानामुपवेशनार्थमासनं सषी। तत्र विशेषो मनुनोकः । “कुतपञ्चाशने दद्यात्" इति। कुतपो नेपालदेशप्रभवमेषादिरोमनिर्मितकम्बलः। तदुक्तं स्मृत्यन्तरे, "मध्याहः खड्गपात्रञ्च तथा नेपाल कम्बलः । रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ पापं कुत्मितमित्याहुस्तस्य सन्तापकारणम् । अष्टावेते यतस्तस्मात् कुतपा इति विश्रुताः” इति ॥ कांस्यपार्मराजतताम्रपात्राणि भोजनार्थमर्चार्थ चोपकल्यानि । अत्र भोजनार्थं पलाप्रपत्रपात्राण्येवोपकल्यानि न त्वन्यपर्णपात्राणि । तथाचात्रिः, "न मृण्मयानि कुर्वीत भोजने देवपित्र्ययोः । पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने"-इति ॥ * ते वै श्राद्धेषु देयाः स्युस्तिलास्ते जर्तिलाः स्मृताः, इति मु० । 91 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy