SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५०, या का० । पराशरमाधवः । पर प्रत्याख्यान कर्तव्यमिति । यस्त्वामन्त्रणमङ्गीकृत्य सत्यपि सामर्थ्य पश्चानिवारयति तस्य दोषोऽस्ति । तथाच मनुः, "केतितस्तु* यथान्यायं इव्यकव्ये द्विजोत्तमः । कथञ्चिदप्यतिकामन पापः शूकरतां व्रजेत्" इति ॥ केतिता निमन्त्रितः । यमोऽपि, "आमन्त्रितश्च यो विप्रो भोनुमन्यत्र गच्छति । नरकाणां शतं गत्वा चण्डालेवभिजायते"-दति ।। निमन्त्रितब्राह्मणपरित्यागे प्रत्यवायोऽस्ति । तथाच नारायणः, "निकेतनं कारयित्वा निवारयति दुर्मतिः। ब्रह्महत्यामवाप्नोति भूट्योनौ च जायते” इति ॥ यस्वामन्त्रिता विप्रचाहतोऽपि श्राद्धकालातिक्रमं करोति तस्य प्रत्यवाय श्रादिपुराणेऽभिहितः, "आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन। देवतानां पितृणाञ्च दातुरन्नस्य चैव हि ॥ चिरकारी भवेद्रोही पच्यते नरकामिना" इति । दाभोनोर्ब्रह्मचर्यनियमातिकमे प्रत्यवायस्तु तत्र तत्रोकः । तत्र रद्धमनुः, "ऋतुकाली नियको वा नैव गच्छेत् स्त्रियं वचित्। तत्र गच्छन् समानोति हनिष्टफलमेव तु"-इति ॥ * केनित,-इति पाठः सेो ना० । एवं परत्र ।। + ऋतुकालं प्राप्येति शेषः। ऋतुकाले,-इति समीचीनः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy