________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३०,या का।
अपिरेवकारार्थः। अमूर्खानेवातिक्रम्य नरकं व्रजेत्, न मूखीनित्यभिप्रायः। श्राद्धे वर्जनीया ब्राह्मणा याज्ञवल्क्येन दर्शिताः,
"रोगी हीनातिरिकाङ्गः काण: पौनर्भवस्तथा । अवकोणी कुण्डगोलौ(१). कुनखी ग्यावदन्तकः ॥ मृतकाध्यापकः क्लीव:(२) कन्यादूयभिशप्तकः । मित्रध्रुक पिशुनः मोमविक्रयी परिविन्दकः ॥ मातापिटगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वीपतिः स्तेनः कर्मदुष्टश्च निन्दितः" इति ॥ रोगी उन्मादादिरोगवान् । उन्मादादिरोगाश्च देवलेन वर्णिताः। "उन्मादस्वग्दोषोराजयक्ष्मा श्वासोमधुमेहोभगन्दरोऽश्मरीत्यष्टौ पापरोगाः" इति । हीनं न्यूनमधिकमतिरिक्तमङ्गं यस्थामौ होनातिरिकाङ्गः। एकेनाप्यक्ष्णा यो न पश्यति, असौ काण: । तेन च वधिरसूकमूर्खादयो लक्ष्यन्ते । बिरूढ़ा पुनर्भूस्तस्यां जातः पौनर्भवः । अवकीर्णो क्षतव्रतः । कुनखी दुष्टनखः । श्यावदन्तः स्वाभाविककृष्णदन्तः। वेतनं ग्टहीत्वा योऽध्यापयति, म भूतकाध्यापकः । असता सता वा दोषेण कन्यां दूषयिता(३) कन्यादूषी। महापातकाभिशप्तकः । परिविन्दकः परिवेत्ता। कुण्डस्यान्न योऽनाति म कुण्डाशी।
(२) कुण्डगोलो,"-परस्त्रियां जातौ हौ सतौ कुण्डगोलको। पत्यौ जी____वति कुण्डः स्यान्मृते भर्तरि गोलकः' इत्युक्तलक्षणौ। (२) स्लीवः, “न मूत्रं फेनिलं यस्य विष्ठा चाप्न निमज्जति । मे चोन्माद
शुकाभ्यां होनं लीवः स उच्यते"-इत्युक्तलक्षणः । (३) दूषयिता,-इति टणन्तं पदम्। पतएव कन्यामिति कर्मणि द्वितीया।
For Private And Personal