SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०, था०का० 17 www.kobatirth.org पराशरमाधवः । Acharya Shri Kailashsagarsuri Gyanmandir कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलिम् । नदीषु बहुतोयासु शीतलास विशेषतः ॥ अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । गयाशी वटे श्राद्धं यो नो दद्यात्समाहितः ॥ एष्टव्या वहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्रमेधेन नीलं वा वृषमुत्सृजेत् " - इति ॥ गया|र्ष प्रमाणञ्चादिपुराणेऽभिहितम्, - "पञ्चक्रोशं गया क्षेत्रं क्रोशमात्रं गया शिरः । महानद्याः पश्चिमेन यावद्गृध्रेश्वरो गिरिः ॥ उत्तरे ब्रह्मयूपस्य यावद्दचिणमानमम् । एतद्रयाशिरा नाम त्रिषु लोकेषु विश्रुतम् " - इति ॥ श्राद्धकालास्त्वमावास्याऽष्टकादयः । तदाह याज्ञबल्क्यः," श्रमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसङ्गमः ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्त्तिताः” – इति ॥ यस्मिन्दिने चन्द्रमा न दृश्यते सा श्रमावास्या । तत्र श्राद्धं नित्यम् । तथाच लौगाक्षः, - “श्राङ्कुर्यादवश्यन्तु प्रमीतपिटको द्विजः । इन्दुक्षये मासि मामि वृद्धौ प्रत्यब्दमेवच " - इति ॥ श्रष्टकाश्चतस्रः मार्गशीर्षादिचतुष्टयापरपक्षाष्टम्यः । " हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमोटका " - दति शौनकस्मरणात्। तत्रापि For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy